________________ : 21 : (प्रकाशः) यद्वा-अथवा, सकले जगति-समस्तसंसारे विश्वस्मिन् विश्वे इति यावत् , त्वय्यायत्ताम्-त्वदधीनाम् , सुखाप्तिम्-कुशलाधिगमम् , जानतो मे-अवगच्छतो मम , अखण्डब्रह्माण्डे जनास्त्वदुदये चञ्चच्चन्द्रिकायां विहरन्त आनन्दमनुभवन्ति इति त्वमेव सुखप्रदो लोकानां न हि स्वयं दरिद्रोऽपरानीश्वरीकर्तुमीश्वरः' इति श्रीमाँस्तु सुख्येवेति तंत्रकःप्रश्नावकाशः, अयम्-'देहे गेहे' इत्यादिना विहितः, ते-तुभ्यम् , वार्तवार्तानुयोगः-वार्तस्य वार्ता तस्य अनुयोगः, कुशलोदन्तविषयकः प्रश्नः, 'स्वास्थ्ये वार्तमनामयम्' इति हैमः ‘प्रश्नः पृच्छाऽनुयोजनम् (अनुयोगः)' इत्यपि हैमः, स्फुटम्-प्रकटं यथास्यात्तथा, स्पष्टम् इति यावत् , अनुचितःअसाम्प्रतम् , तदपि-तथापि, स्नेहसाराञ्चितत्वात्-प्रकर्षप्रेमपरिकलितत्वात् , अयम्-पूर्वप्रदर्शितः प्रश्नः, सरसः-समीचीनः, मन्तव्य:-ज्ञातव्यः, कुशलप्रश्नो मे प्रेम्णा प्रादुरभूत् प्रेमनिबद्धं च वचो विरुद्धमप्यविरुद्धमिव भवतीति स युक्त एवेत्याशयः, यतः स्नेहधारोपसिक्तम्-घृतप्रवाहैरञ्चितम् , स्नेहः प्रेम्णि घृतादिके' इत्यने कार्थसङ्ग्रहः / कदशनमपि-गर्हितमपि अन्नम् , अश्यते एतदित्यशनं भुज्यादित्वादनट् 'भक्तमन्नं.... .......अशनम्,' इति हैमः कुत्सितम् अशनं 'कोः कत्तत्पुरुपे' / 3 / 2 / 130 / इति कदादेशे कदशनम् , स्वादीयः-स्वादुसमञ्चितम् , अतिशयेन स्वादुः स्वादीयः ‘गुणााङ्गाद्वेष्ठेयसू' / 7 / 3 / 9 / इतीयस् , अतिमधुरमितियावत् स्यात्-भवेत् / अर्थान्तरन्यासः // 12 //