________________ : 20 : रोगरहिता, अस्ति-आस्ते ? अन्याः-इतराः, सर्वा अपिसकला अपि, दक्षजाः-दक्षसुताः दाक्षायण्यः, पत्न्यः-दाराः 'दाक्षायण्यः सर्वाः शशिप्रियाः' इति हैमः 'सर्वा अश्विन्यादयः सप्तविंशतिरपि शशिप्रियाश्चन्द्रदाराः इति तद्विवृतौ, सकुशलाःकुशलकलिताः, सन्ति ? अत्र हि रोहिण्यादिभिः सह चन्द्रस्य परमार्थतः स्वामिसेवकभावेऽपि पतिपत्नीभावः प्रदर्शितः स कविसमयमनुरुध्यावसेयः / ते हृदानन्दनः-हृदयाहादकः, पश्चार्थि:पञ्चार्चिषोऽस्य पाञ्चर्चिः-रोहिणीसुतः, बुध इतियावत् नन्दन:तनयः, शम्-सुखम् , कलयति-अनुभवति ? 'छेकोव्यञ्जनसङ्घस्य सकृत्साम्यमनेकधेति लक्षणलक्षितच्छेकानुप्रासः // 11 // (12) , साधोः कस्यचनासंयमिनः कुशलविषयकः प्रश्नो ह्याचारविरुद्ध इतिच्छलेन तादृशप्रश्नस्य विरुद्धत्वमपाकरोति-यद्वाऽयमिति यद्वाऽयं ते स्फुटमनुचितो वार्तवार्तानुयोगस्त्वय्यायत्तां जगति सकले जानतो मे सुखाप्तिम् // मन्तव्योऽयं तदपि सरसः स्नेहसाराञ्चितत्वात्, स्वादीयः स्यात् कदशनमपि स्नेहधारोपसिक्तम् / 12 / (अन्वयः) यद्वा सकले जगति त्वय्यायत्तां सुखाप्तिं जानतः मे अयं ते वार्तवार्तानुयोगः स्फुटम् अनुचितः तदपि स्नेह साराञ्चितत्वात् अयं सरसः मन्तव्यः (यतः) स्नेहधारोपसिक्तं कदशनम् अपि वादीयः स्यात् // 12 //