________________ : 19 : पुण्यं वृषः श्रेयः सुकृते ' इति हैमः / फलितम्-उदयावलिकायामागतम् , यत्-यस्माद्धेतोः,स्मर्यमाणः-स्मरणं क्रियमाणः, प्रिय:स्नेही, अपुण्यानाम्-न विद्यते पुण्यं येषां ते तेषाम्-अधन्यानाम् , नयनविषयम्-लोचनगोचरम्, न-नैव, उपेयात्-प्राप्नुयात् / अर्थान्तरन्यासः // 10 // . (11) साम्प्रतं सपरिवारस्येन्दोः कुशलानुयोगः-'देहे गेह' इति / देहे गेहे कुशलमतुलं वर्तते कचिदिन्दो !, नीरोगाशी सुभग ! गृहिणी रोहिणी तेऽस्त्यभीष्टा / अन्याःसर्वा अपि सकुशला दक्षजाः सन्ति पत्न्यः, पञ्चार्चिः शं कलयति हृदा-नन्दनो नन्दनस्ते // 11 // . ( अन्वयः) इन्दो ! कच्चित् ते देहे गेहे अतुलं कुशलं वर्तते ? सुभग ! (ते) अभीष्टा गृहिणी रोहिणी नीरोगाझी अस्ति ? अन्याः सर्वा अपि दक्षजाः पत्न्यः सकुशलाः सन्ति ! ते हृदानन्दनः पञ्चार्चिः नन्दनः शं कलयति ? / (प्रकाशः ) इन्दो !-हे चन्द्र ! कच्चित्-किम् ? -- कच्चिदिष्टपरिप्रश्ने' इति हैमः, / ते-तव, देहे-शरीरे, गेहे-सदने, अतुलम्-निरुपमम् , कुशलम्-क्षेमम् , वर्तते-अस्ति ?, सुभग!हे सौभाग्यशालिन् ! सुधांशो ! ते अभीष्टा-प्राणप्रिया, गृहिणीसधर्मिणी, रोहिणी-रोहन्ति कार्याण्यस्यां रोहिणी 'द्रुहृवृहि-' (उणा० 194 ) इत्यादिना बहुवचनाद् ' इणे ' ' रेवतरोहिणाद्धे' / 2 / 4 / 26 / इति -- ङीः '-ब्राह्मीनक्षत्रम् , नीरोगाङ्गी