________________ . : 18 : पुण्यैः प्राच्यैः फलितमतुलै-रस्मदीयैरुपेयानापुण्यानां नयनविषयं यत्प्रियः स्मर्यमाणः // 10 // ( अन्वयः) सुहृत् ! उडुपते ! भृशं पीयूषौधैः प्राणिनाम् ईक्षणानि उपचरन् अतिथिः त्वम् अद्य अस्माभिः दिल्या दृष्टः अस्मदीयैः प्राच्यैः अतुलैः पुण्यैः फलितम् यत् स्मर्यमाणः प्रियः अपुण्यानां नयनविषयं न उपेयात् // 10 // / (प्रकाशः) सुहृत् !-मित्र ! शोभनं हृदयमस्य सुहृत् ‘सुहृदुहृद्-' 7 / 3 / 157 / इति हृदादेशः / उडुपते !-इयर्ति खमिति -- उड् च भे' (उणा० 738) इति उः अर्तेरुडादेशश्च उडु-ग्रहस्तस्य पतिः-नाथः तत्सम्बुद्धौ उडुपते ! भमुडु ग्रहः' इति हैमः, ग्रहशेतियावत् / भृशम्-नितान्तम् , पीयूषौघैः-अमृतसमूहै: सुधास्यन्दैरितियावत् , प्राणिनाम्-चैतन्यभाजाम् , ईक्षणानिनयनानि 'ईक्षणं नेत्रं नयनम् ' इति हैमः / उपचरन्-सिञ्चयन् , अतिथि:-अभ्यागतः अतति सततं गच्छतीत्यतिथिः 'प्राघुर्णोऽभ्यागतोऽतिथिः' इति हैमः, अत्रत्यविशेषविचारोऽस्मदुपज्ञमयूरदूतपञ्जिकायामालोचनीयः / त्वम्-श्रीमान् , अद्य-अस्मिन् अहनि -- सद्योऽद्यपरेद्यव्यति' / 7 / 2 / 97 / इति साधुः, अस्माभिः-एतजनैः, दिष्ट्या-भाग्येन, दिशति दिष्ट्या ' वृमिथिदिशिभ्यः / (उणा० 601) इति कित् ट्यादिः आप्रत्ययः यथा 'दिष्टया पुत्रो जातः' / दृष्टः-प्रत्यक्षमुपगतः, इति अस्मदीयः-मामकीनैः, प्राच्यैः-पूर्वकालीनैः, अतुलै:-अपूर्वैः, पुण्यैः-सुकृतैः, पुणति पुण्यम् -- ऋशिजनि-' ( उणा० 361) इति किद् ‘यः' 'धर्मः