________________ : 16 : यस्य सूत्रकृतोऽभिप्रेतत्वादितिचेन्न अपवादभूतेन 'सर्वपश्चादादयः' / 3 / 1180 / इत्यनेन समासस्य सम्भवातू, परिगतम्- सर्वतोभावेन वर्तमानम् , शीतरश्मिम्-चन्द्रमसम् , ददर्श-अद्राक्षीत् // 8 // .. (9). - कविकृत इन्दु खागतव्याहारोपक्रमः / दृष्ट्वेति दृष्ट्वा चैनं स परमगुरु-ध्यानसन्धानलीनस्वान्तः कान्तं तमिति रजनेः स्वागतं व्याजहार // सद्यः साक्षाद् गुरुपदयुगं नन्तुमुत्कण्ठितोऽपि, . द्रागेतेन स्थितिपरवशो वन्दनां प्रापयिष्यन् // 9 // ( अन्वयः ) रजनेः कान्तं तम् एनं दृष्ट्वा परमगुरुध्यानसन्धानलीनस्वान्तः सः (सजातः) इति सद्यः गरुपदयुगं साक्षाद नन्तुम् उत्कण्ठितोऽपि स्थितिपरवशः एतेन द्राक् वन्दनां प्रापयिष्यन् (इन्दोः) स्वागतं व्याजहार // 9 // (प्रकाशः) रजनेः कान्तम्-निशानाथम् , तमेनम्-प्राचीपर्वतोपरि परिगतमिन्दुम् , दृष्ट्वा-विलोक्य, परमगुरुध्यानसन्धानलीनस्वान्तः-परमश्चासौ गुरुस्तस्य ध्यानं तस्य सन्धानं तत्र लीनं खान्तं यस्य सः, श्रीमदाचार्यवर्यविजयप्रभसूरीश्वरचरणचिन्तनानुसन्धानसंसक्तचेताः, सः-वाचकवरश्रीविनयविजयगणी, सञ्जातः इति शेषः, इति-अस्मात् कारणात् , सद्यः-तत्क्षणमेव, समानेऽहनि सद्यः, 'सद्योऽद्यपरेद्यवि-' 7 / 2 / 97 / इति साधुः, 'सहसैकपदे सद्योऽकस्मात् सपदि तत्क्षणे' इति हैमः / गुरुपदयुगम्-श्रीमदाचार्यचरणकमलयमलम् , साक्षात्-प्रत्यक्षतः, नन्तुम्-नमस्कर्तुम् ,