________________ कुण्डलीकृत्य 'कृभ्वस्तिभ्याम्-' / 7 / 2 / 126 / इति 'च्चिः' 'ईश्वा. ववर्णस्या-'।४।३।१११। इति अस्य 'ई:' 'ऊर्याद्यनुकरण-' / 3 / 1 / 2 / इति गतिसंज्ञा, 'गतिः' / 1 / 1 / 36 / इति अव्ययसंज्ञा, 'अनञः क्त्वो यप्' / 3 / 2 / 154 / इति 'यप्' इति सिद्धम् , कुण्डलसदृशमिव विधाय, दन्तौ-विषाणौ ‘(अस्य) दन्तौ विषाणौ' इति हैमः। उत्तानौ-उन्नती, कृत्वा-प्रकल्प्य, स्वर्गम्-दिवम् , जेतुम्-जयाय, रभसाद्-सहसा, नभसि-गगने, आरुरुक्षोः आरोदुमिच्छोः, अमुष्य शृङ्गस्य-एतच्छिखरस्य, महाधीरनासीरभावम्-महाँश्चासौ धीरः स चासौ नासीरः तस्य भावस्तम्-श्रेष्ठतराग्रसरत्वम्-'नासीरोऽग्रसरे श्रेष्ठे' इति कोषः,स्फुटयतीव-प्रकटयतीव / (8) एवं श्लोकषट्रेनोपवर्णितश्रीयोधपुरनगरे श्रीविनयविजयाभिधोपाध्यायप्रवरेणाचार्यवर्याज्ञया चातुर्मासी व्यधायि तत् तत्र चन्द्रदर्शनच्च वर्णयति / तस्मिन्निति तस्मिन् योधा-भिधपुरवरे श्रीमदाचार्यपादादेशान् मासाँ-श्चतुर उषितो यो विनीतो विनेयः॥ साधुः सैष प्रहरविगमे भाद्रराकारजन्याः, प्राचीशैलो-परि परिगतं शीतरमि ददर्श // 8 // (अन्वयः ) तस्मिन् योधाभिधपुरवरे यः विनीतः विनेयः श्रीमदाचार्यपादादेशात् चतुरः मासान् उषितः स एष साधुः भाद्रराकारजन्याः प्रहरविगमे प्राचीशैलोपरि परिगतं शीतरश्मि ददर्श // 8 //