________________ : 13 : उपरि पुंरूपाभ्यां कलितं दन्तिनं वीक्ष्य शङ्के (यत्) इन्द्रः स्वर्गलोकात् इह उत्तीर्य अनुपमम् एतत्पुरम् अद्राक्षीत् इति लौकैः विरचितम् एतत् चिह्नं चकास्ति / 6 / यत्र अद्रिशृङ्गे स्थास्नुः उपलरचितः हस्ती मदात् शुण्डायुधं कुण्डलीकृत्येव दन्तौ उत्तानौ कृत्वेव जेतुं स्वर्ग रभसाद् नभसि आरुरुक्षोः अमुष्य शृङ्गस्य महाधीरनासीरभावं स्फुटयतीव / 7 / (प्रकाशः) यस्मिन्-नगरे, अद्रिशृङ्गे-गिरिशिखरे, उपलरचितम्-पाषाणनिर्मितम् , मत्तरूपम्-अतिशयेन मत्तं-मदोन्मत्तमितियावत् , 'त्यादेश्वपशस्तरूपप्' / 7 / 3 / 10 / इति 'रूपप्' श्यामम्श्यामलम् , उपरि-हस्तिनः पृष्ठप्रदेशे, पुंरूपाभ्याम्-पुरुषाकाराभ्याम् , कलितम्-युक्तम् , दन्तिनम्-करिणम् , वीक्ष्य-विलोक्य, शङ्के-उत्प्रेक्षे, (यत्) इन्द्रः-देवराजा, स्वर्गलोकात्-अमरनिवासस्थानात् इह-अस्मिन् प्रदेशे, उत्तीर्य-अवतीर्य अनुपमम्-न विद्यते उपमा यस्य तत्-अनुपमम्-असदृशम् , एतत्पुरम्पुरो दृश्यमानं नगरम् , अद्राक्षीत्-अवालुलोचत्, इति-इतिहेतोः, लोकैः-जनैः, विरचितम्-सम्पादितम् , एतत्-समीपतरवर्ति, चिह्नम्-म्मारकाकृतिविशेषः, चकास्ति-राजतेतराम् // 6 // अथवा यत्र-यस्मिन् पुरे, अद्रिशृङ्गे-पर्वतोपरितनप्रदेशे, स्थास्नुः-स्थैयशील:-स्थिर इति यावत् तिष्ठत्येवं शीलमिति स्थास्नुः 'स्थाग्लाम्ला-' / 5 / 2 / 31 / इति 'स्नुः' उपलरचितः-शिलासम्पादितः 'ग्रावा शिलोपलः' इति हैमः / हस्ती-दन्ती, मदात्-गर्वात् , शुण्डायुधम्शुण्डा एव आयुधम्-शुण्डायुधम् निजहस्तरूपास्त्रम् , 'हस्तिनासा करः शुण्डा' इति हैमः / कुण्डलीकृत्येव-अकुण्डलं कुण्डलं कृत्वेति