________________ : 12 : वाचकपदावधिकपूर्वत्वाभाववत्त्व-स्वघटकपदजनिताकाङ्क्षाशामकार्थाबोधकत्वोभयसम्बन्धेन, तथाहि 'नाशयन्तो घनध्वान्तं, तापयन्तो वियोगिनः / पतन्ति शशिनः पादा, भासयन्तः क्षमातलम् // इत्यत्र श्लोकात्मकं वाक्यं स्वपदार्थः तत्र स्वतादात्म्यं वर्तते अथ च स्वविशिष्टं विशेषणं भासयन्त इति तत्र विशेषणे स्वघटकविशेप्यवाचकपादा इति पदावधिकपूर्वत्वाभाववत्त्वस्य स्वघटकनाशयन्त इति पदजनित कथं नाशयन्त इत्याकाङ्क्षाशामकार्थाबोधकत्वस्य च सत्त्वेन तादृशोभयसम्बन्धेन वाक्यविशिष्टविशेषणवाचकभासयन्त इति पदघटितत्वं वर्तते इति / (6-7) शिखरिशिखरस्थोपलरचितं हस्तिनमुत्प्रेक्षते श्लोकद्वयेन 'श्याममिति' 'स्थास्नुरिति'च श्यामं यस्मि-न्नुपलरचितं दन्तिनं मत्तरूपं / पुंरूपाभ्या-मुपरि कलितं वीक्ष्य शङ्केऽद्रिशङ्गे।। उत्तीर्यंत-त्पुरमनुपमं स्वर्गलोकादिहेन्द्रोऽद्राक्षील्लोकै-रिति विरचितं चिह्नमेतचकास्ति // 6 // स्थास्नुःशुण्डा-युधमिव मदात् कुण्डलीकृत्य दन्तौ कृत्वोत्ताना-वुपलरचितो यत्र हस्त्यद्रिशृङ्गे / स्वर्ग जेतुं नभसि रभसा-दारुरुक्षोरमुष्य / शृङ्गस्येव स्फुटयति महा-धीरनासीरभावम् // 7 // . (अन्वयः) यस्मिन् अद्रिशृङ्गे उपलरचितं मत्त रूपं श्यामम्