________________ : 11 : प्रीतिस्ताम् , सङ्गीतसाक्षात्कारस्नेहम् , 'गीतनृत्यवाद्यत्रयं नाट्यं तौर्यत्रिकं च तत्' इति हैमः। 'वनेऽपि तौर्यत्रिकम्' इति नैषधे, आविकरोति-प्रकटयति, निर्दबहिराविष्-' / 2 / 3 / 9 / इति षत्वे आविकरोति / अयं हि अभिप्रायः, तत्र क्रीडाकानने सर्वदा सर्वतो नैसर्गिक सङ्गीतं प्रचलति तथाहि-'नृत्यं गीतं च वाद्यं च, त्रयं सङ्गीतमुच्यते' इत्यभियुक्तोक्तेः सङ्गीते नृत्यगीतवाद्यापेक्षा भवति इति प्रकृतेऽपि तत्रितयमस्त्येव यथा मयूराणां नृत्यम् , मधुकराणां मनोरमो ध्वनिः-गुञ्जारवो-गीतम् , समीरणसञ्चालितपादपपर्णप्रकराणां शब्दो वाद्यमिति / अत्र विशेषमालोचयामः-'क्रियान्वयेन शान्ताकाङ्क्षस्य विशेप्यवाचकपदस्य विशेषणान्तरेणान्वयार्थ पुनरनुसन्धान' समाप्तपुनरात्तत्वदोषः, प्रकृते स हि काव्यदोषः, तथाहि 'क्रीडोपवनपदवी... प्रीतिमाविष्करोति' इत्यत्र आविष्करोति क्रियान्वयेन शान्ताकाङ्कस्य विशेष्यवाचक-क्रीडोपवनपदवीपदस्य नृत्यत्केकिप्रकरसुभगेत्यादिविशेषणत्रयान्तरेणान्वयार्थ पुनः सा क्रीडोपवनपदवी कीदृशीत्यनुसन्धानादिति चेत्-उच्यते आकाङ्क्षा द्विविधा भवति उत्थाप्याकाङ्क्षा उत्थिताकाङ्क्षा च तत्रोत्थाप्याकाङ्क्षया विशेषणान्तरान्वयस्थल एव स दोषो न तूस्थिताकाङ्या विशेषणान्तरान्वयस्थले, प्रकृते च उपवने तौर्यत्रिकं किम् ? इति उत्थिताकाङ्यैब नृत्यत्केकीत्यादि विशेषणान्तरम्योपादानेन तद्दोषस्यानवकाशात् / समाप्तपुनरात्तत्वस्यानुगमस्तु-वाक्यविशिष्टत्वम्-वैशिष्वं च स्वतादात्म्य-स्वविशिष्टविशेषणवाचकपदघटितत्वोभयसम्बन्धेन, तत्रापि वैशिष्ट्यं स्वघटकविशेष्य