________________ : 10 : नृत्यत्केकि-प्रकरसुभगा मजुगुञ्जद्विरेफा / वातोद्भूत-द्रुमदलतति-ध्वानवादिब्रहृद्या / / 5 // (अन्वयः) यत्र नृत्यत्केकिप्रकरसुभगा मञ्जुगुञ्जविरेफा वातोद्धृतमदलततिध्वानवादित्रहृया क्रीडोपवनपदवी क्रीडतां नागराणां विष्वक् तौर्यत्रिकपरिचयप्रीतिम् आविष्करोति // 5 // (प्रकाशः ) यत्र-यस्मिन् नगरे नृत्यत्केकिप्रकरसुभगा-' नृत्यन्तश्च ते केकिनस्तेषां प्रकरस्तेन सुभगा, नृत्यं कुर्वन्मयूरसमूहसुन्दरा, मयूराणां लास्येन मनोरमेति यावत् , मञ्जुगुञ्जद्विरेफामञ्जु यथा स्यात्तथा गुञ्जन्तो द्विरेफा यत्र सा, मधुराव्यक्तध्वनि विदधन्मधुकरकलिता, द्वौ रेफौ यस्य नाम्नि स द्विरेफः-भ्रमरः द्विरेफशब्दस्य भ्रमरपदार्थे लक्षितलक्षणा-स्ववाच्यरेफद्वयघटितपदवाच्यत्वसम्बन्धरूपावसेया / वातो तद्रुमदलततिध्वानवादित्र. हृद्या-वातेन उद्धतानि द्रुमाणां दलानि तेषां ततिस्तस्या ध्वानः स एव वादित्रं तेन हृद्या-पवनप्रकम्पितपादपपत्रपुञ्जनिस्वानवाद्यमनोज्ञा, वदति आहन्यमानं वादित्रम् 'भूगृवदिचरिभ्यो णित्' (उणा-४६०) इति 'इत्रः' 'वाद्यं वादिनमातोद्यम्' इति हैमः / क्रीडोपवनपदवी-समीपे वनम् उपवनं क्रीडायै उपवनं तस्य पदवी, विनोदवाटिकावर्त्म, ‘पदव्येकपदी पद्या, पद्धतिवर्त्मवर्तनी' इति हैमः / क्रीडताम्-रममाणानाम् नागराणाम्-पौरजनानाम् , विष्वक्-परितः विश्वमञ्चतीति विष्वक् यथा 'विष्वग् व्याप्य स्थितो महीम् ', 'परितः सर्वतो विष्वक्' इति हैमः, तौर्यत्रिकपरिचयनीतिम्-तुर्यस्येदं त्रिप्रमाणं तौर्यत्रिकं तस्य परिचयोऽनुभवस्तस्य