________________ / 3 / 1 / 39 / इति समासे अनुपदम् , तासाम्-शिखरवर्तिभवनततीनाम् , अधस्तात्-अधोभागे-नीचैः, अधरे देशे इत्यधस्तात् -- पूर्वावराधरेभ्यो-'।७।२।११५। इत्यस्ताति अधादेशे च सिद्धम्, सन्तिआसते, काश्चित भृमौ-पृथिवीप्रदेशे अपि वर्तन्ते इति शेषः, एताः भृशवलत्केतवः-भृशं वलत् केतुर्यासां ताः अतिशयचञ्चत्पताकाः, चाय्यते लक्ष्यतेऽनेनेति केतुः 'चायः के च' (उणा० 778) इति तुः चायश्च के आदेशः 'वैजयन्ती पुनः केतुः पताका केतनं ध्वजः' इति हैमः / कान्तिप्ताः-द्युतिगर्विताः, रुचिमदात्सौन्दर्याभिमानात् यां-स्वर्गम् , धुक् अभिगमे द्यौति अभिगच्छति अमुं सुरजन इति 'घुगमिभ्यां डोः' (उणा० 867) इति डोप्रत्यये घोशब्दः ओकारान्तः तस्माद्वितीयैकवचने 'आ अम्-शसोऽता' / 1 / 4 / 75 / इत्यात्वे द्यामिति / 'स्वर्गस्त्रिविष्टपं द्योदिवौ' इति हैमः / निर्जेतु-पराभवितुम् , इव-शके इवेति उत्प्रेक्षासूचकम् , यदुक्तं 'मन्ये शङ्के ध्रुवं प्रायो, नूनमित्येवमादयः / उत्प्रेक्षाव्यञ्जकाः शब्दाः, इव शब्दोऽपि तादृशः / / ' इति / निर्व्यवस्थम्-व्यवस्थारहितं यथा स्यात्तथा व्यवस्थायाः निष्क्रान्तमिति निर्व्यवस्थम् , 'प्रात्यवपरिनिरादयो-' / 3 / 1 / 47) इति समासः इतस्तत इति यावत् प्रस्थिताः-कृतप्रयाणाः सन्तीति शेषः // 4 // (5) तत्रत्यमुपवनं वर्णयति / यत्रेतियत्र क्रीडो-पवनपदवी क्रीडतां नागराणां / विष्वक्तौर्य-त्रिकपरिचय-प्रीतिमाविष्करोति /