________________ कूटाः शिखराणि यस्य स तम् . तदाख्यगिरिविशेषम् , शैलाग्रण्यंपर्वतप्रधानम् , अधिरूढं-प्राप्तं यथा स्यात्तथा, राजते इत्यस्य विशेषणम् , अनिशं-सततम् , राजते-शोभते, उत्प्रेक्षा // 3 // (4) पर्वतीयप्रदेशत्वेन तद्देशस्योच्चावचत्वात्तत्र गृहाणां व्यवस्थाराहित्यमास्ते तदुत्प्रेक्षते / यत्रेति-- यत्रेभ्यानां भवनततयः काश्चिदद्रेस्तटाग्रं, प्राप्ताः काश्चित् पुनरनुपदं सन्ति तासामधस्तात् / काश्चिद्भूमा-वपि भृशवल-त्केतवः कान्तिप्ता, निर्जेतुं द्या-मिव रुचिमदात् प्रस्थिता निर्व्यवस्थम् // 4 // (अन्वयः ) यत्र इभ्यानां काश्चित् भवनततयः अद्रेः तटाग्रं प्राप्ताः पुनः काश्चित् अनुपदं तासाम् अधस्तात् सन्ति काश्चित् भूमौ अपि (वर्तन्ते ) (एताः) भृशवलत्केतवः कान्तिदृप्ताः रुचिमदात् द्यां निर्जेतुम् इव निर्व्यवस्थं प्रस्थिताः // 4 // / (प्रकाशः) यत्र-यस्मिन् पत्तने, इभ्यानां-धनिनाम् , इभं हस्तिनम् अर्हन्तीति इभ्याः ‘दण्डादेर्यः' / 6 / 4 / 178 / इति 'यः' श्रेष्ठिनामितियावत् / काश्चित्-कियत्यः भवनततयः-वेश्ममालाः, अद्रेः-शिखरिणः अद्यते वज्रेण इत्यद्रिः 'तकिवङ्कि-' (उणा-६९२) इति रिः, 'शैलोऽद्रिः शिखरी' इति हैमः। तटाग्रंशिखरम् , उपरिभागमिति यावत् प्राप्ताः-स्थिताः, पुन:-काश्चित् , अनुपदं-क्रमशः पदस्य पश्चादिति विग्रहे 'विभक्ति-समीप-'