________________ :6: हैमः / अधः-नीचैः भूमावितियावत् , विमानावतारक्लेश-विमानस्य अवतरणम्-अवतारः तेन जनितः क्लेशस्तम् , स्वयाननयनजन्यदुःखम् , नासादयति-नाधिगच्छति / यतश्च मूर्तयः चन्द्रशालानिविष्टाः सन्तीति उपरिष्टादेव विमानात् तासां दर्शनं भवति तेषामिति नीचैरागमनप्रयासायासो न विधीयतेतरां तैरितिभावः / अनुप्रासः / (3) तत्र पुरपरिसरवर्तिपञ्चकूटपर्वतोपरिभागनिवसदराजलोकमुत्प्रे. क्षते / यत्रेति यत्रोत्सर्प-च्छिक(ख)रकिरणैः शोभयन्नभ्रदेश, साक्षाल्लक्ष्मी-वसतिरनिशं राजते राजलोकः / / मेर्वारूढ-त्रिदशनगर-स्पर्धयेवाधिरूढं, शैलाग्रण्यं कनकनिकष-स्निग्धभं पञ्चकूटम् / / 3 / / (अन्वयः) यत्र उत्सर्पच्छिखरकिरणैः अभ्रदेशं शोभयन् साक्षालक्ष्मीवसतिः राजलोकः मेर्वारूढत्रिदशनगरस्पर्धया इव कनकनिकषस्निग्धभं पञ्चकूटं शैलानण्यम् अधिरूढम् अनिशं राजते। (प्रकाशः) यत्र-यस्मिन् पुरे उत्सर्पच्छिखरकिरणेः-शिखरः-मुकुटस्थितरत्नविशेषस्तस्य किरणाः-उत्सर्पन्तश्च ते शिखरकिरणाः तैः, उद्गच्छदनविशेषरश्मिभिः 'शिखरः-रत्नभेदे च ' इति शब्दस्तोममहानिधिः / अभ्रदेश-गगनप्रदेशम् / शोभयन् 1 मुद्रितपुस्तके शिकरकिरणैरित्युपलभ्यते परं• शिकरशब्दस्यानुपलम्भेनार्थविशेषाभावेन च स पाठः परित्यक्तः /