________________ दर्श दर्श विनयविनतोऽ-धो विमानावतारक्लेशं नासा-दयति निकरो हृद्यविद्याधराणाम्।।२।। (अन्वयः) यत्र व्योमव्यतिगशिखरेषु अर्हता मन्दिरेषु चन्द्रशालानिविष्टाः नयनसुभगाः जैनीः मूर्तीः दर्श दर्श विनयविनतः हृद्यविद्याधराणां निकरः अधो विमानावतारक्लेशं नासादयति // 2 // (प्रकाशः) यत्र-यस्मिन् , नगरे इतिशेषः, व्योमव्यतिगशिखरेषु-व्योम्नि व्योम वा व्यतिगच्छतीति व्योमव्यतिगं तादृशं शिखरं येषां तेषु, गगनचुम्बिशृङ्गेषु, अर्हता मन्दिरेषु-श्रीजिनेश्वरप्रासादेषु, चन्द्रशालानिविष्टाः-चैत्योपरितनभागस्थिताः ‘चन्द्रशाला शिरोगृहम् ' इति हैमः / नयनसुभगाः-नेत्राह्लादसपादिकाः,जैनीः मूर्तीः-अर्हत्प्रभोः प्रतिमाः, जिनस्येयमिति विग्रहे 'तम्येदम्' / 6 / 3 / 160 / इत्यणि 'अणजेयेकण'-२।४।२०। इति ज्याम् , जैनी ताः, दर्श दर्श-दृष्ट्वा दृष्ट्वा दृश्धातोः 'रुणं चाभीश्ण्ये' / 5 / 4 / 48 / इति रुणमि ‘भृशाभीक्ष्ण्या '--7 / 4 / 73 / इति द्वित्वे दर्श दर्शम् , ननु मूर्तीअँनीरित्यत्रं दर्श दर्शमिति कृद्योगे 'कर्मणि कृतः कर्तरि च' / 2 / 2 / 83 / इति षष्ठी कुतो नेति चेत् , न, दर्शमिति ख्णप्रत्ययान्तस्य 'क्त्वातुममम्' / 1 / 1 / 34 / इत्यनेनाव्ययत्वात् 'तृन्नुदन्ताव्यय-'।२।२।९०। इति सूत्रेण षष्ठ्या बाधे द्वितीयायाः सौलभ्यात् / विनयविनतः-शास्त्रजनितसंस्कारविशेषो विनयस्तेन विनतः विनम्रः हृद्यविद्याधराणां निकरः-हृद्याश्च ते विद्याधरास्तेषां निकरः-समूहः-मनोज्ञप्रज्ञप्तिरोहिणीप्रमुख विद्याशालिनां नरविशेषाणामोघः 'सङ्घाते प्रकरौघवारनिकरव्यूहाः समूहश्चयः' इति