________________ बोधनम् तथा च हैमः 'देवाः सुपर्वसुरनिर्जरदेवतर्भू-बहिर्मुखानिमिषदैवतनाकिलेखाः॥' 'राजिलेखा ततिर्विथी, मालाल्यावलिपतयः' इति हैमः / एवञ्च देवतालिनमस्कृतानाम् , गुरुगुणवताम्-गुरवो महान्तश्च ते गुणाः सद्गुणास्ते सन्ति येषु तेषाम् , महासद्गुणशालिनाम् , अथवा गुरोराचार्यस्य गुणाः षट्त्रिंशत्सङ्ख्याका विशिष्टा गुणाः 'पश्चिन्दियसंवरणो, तह य नवविहवंभचेरगुत्तिधरो / चउविहकसायमुक्को, इअ अट्ठारस गुणेहि संजुत्तो / 1 / पंचमहत्वयजुत्तो, पंचविहायारपालणसमत्थो। पंचसमिओ तिगुत्तो, छत्तीसगुणो गुरू मज्झ // 2 // " इतिसूत्रप्रतिपादिताः सन्ति येषु तेषाम् , सूरेिषट्त्रिं शद्गुणभाजाम् श्रीपूज्यानाम्-आचार्यप्रवराणाम् / प्रभूतोदन्तम्प्रचुरवृत्तम् , “वार्ताप्रवृत्तिवृत्तान्त उदन्त" इति हैमः / इन्दुदूतम्इन्दुश्चन्द्रः दूतः सन्देशवाहको यस्य तम् , तदभिधमितियावत् / लेखम्-सन्देशम्। लिखति-निबध्नाति / मन्दाक्रान्तावृत्तमाकाव्यम् , तथा च तल्लक्षणम्-‘मन्दाक्रान्ता जलधिषडगैम्भी तनौ ताद्गुरू चेत्' इति / यत्र वर्णानामनेकवारमावृत्तिस्तत्र वृत्त्यनुप्रासः इति प्रकृते वृत्त्यनुप्रासालङ्कृतिः // 1 // (2) अथ सूक्तषट्केन श्रीयोधपुरनगरं वर्णयति, तत्रादौ श्रीजिनमन्दिरवर्णनम् / यत्रेति यत्र व्योम-व्यतिगशिखरे-ध्वहतां मन्दिरेषु, मूर्तीजैनी-नयनसुभगा-श्चन्द्रशालानिविष्टाः / /