________________ श्रीणामिति / भवन्त्यस्मिन्निति विग्रहे भूधातोराधारे 'करणाधारे' / 5 / 3 / 129 / इत्यनेन 'अनटि' भवनम् / अवनीकान्तपतिप्रणम्यम्-अवनेः-पृथिव्याः कान्तः-स्वामी तस्य पतिः-श्रेणिः तया प्रणम्यः-वन्दनीयः तम् , राजराजीनमस्करणीयम् , अवति-रक्षति प्रजाः, अव्यते भूपैरिति वा अवनिः ‘सदिवृत्य-' (उणादि-६८०) इत्यनिः 'इतोऽक्त्यर्थात्' / 2 / 4 / 32 / इति ड्याम् अवनी। प्रणम्यते य इति विग्रहे प्र+नम् धातोः कर्मणि -- शकितकि-पवर्गात् ' / 5 / 1 / 29 / इति यप्रत्यये ' अदुरुपसर्गा-'।२।३।७७। इति णत्वे प्रणम्यः / परमपुरुषम्-परमात्मानम् , परं-परत्वं मातीति परावा उत्कृष्टा मा-लक्ष्मीर्यस्येति परमः / पार्श्वनाथम्-तदाख्यं त्रयोविंशं तीर्थपतिम् / प्रौढप्रीत्या-समधिकम्नेहेन, उल्लसद्भक्तिभरनिर्भरहृदयेनेति यावत्। प्रणम्य-अभिवन्ध, विनय:-महामहोपाध्यायश्रीविनयविजयगणिनामा वाचकप्रबरः, लेखलेखानतानाम्-लेख:लेखनीयः लेखो-निवन्धो येषां ते विबुधास्ते आनता येषु-तेषाम् , कोविदप्रणतानाम् , पण्डितपरिपूजितानामिति यावत् , लिख्यते यत् इति कर्मणि घञि प्रथमलेखपदेन लेखनीयस्य, लिख्यते यत्रेत्याधारे पनि सति द्वितीयलेखपदेन निबन्धस्यावबोधः, उभयत्र ‘भावाकत्रोंः' / 5 / 3 / 18 / इतिघञ् एवञ्च पण्डितानामेव लेखस्य लेखनीयतया लेखलेखपदेन यौगिकेन पण्डितरूपोऽर्थः स्पष्टतयोपलभ्यते / यद्वा लेखानां-देवानां लेखा-राजिः सा नता येषु तेषाम् , लिख्यन्ते चित्रादौ ध्यानार्थमिति लेखाः, हस्तादौ प्रशम्ता लेखाः सन्त्येषामिति वा अभ्रादित्वाद् अः, इति व्युत्पत्त्या लेखपदेन देवस्य