________________ म्वस्तिश्रीप्रभूतपरमपुरुषपरमात्मप्रासादपरिमण्डिते श्रीसूर्यपुर( सूरत )नगरे कृतज्येष्ठस्थितीनाचार्यपादान् निजानुपमानुभाववशीकृतविश्वजनान् विश्वजनीनान् श्रीविजयप्रभसूरीश्वरमहाराजान् प्रति श्रीमन्मरुधरदेशे मणिवन्मनोरमे सम्पत्समञ्चिते श्रीयोधपुरनगरे विहितचातुर्मासवासः साहित्य-व्याकरणागमादिसमम्तशास्त्रविद्वरेण्यः श्रीविनयविजयनामा महामहोपाध्यायः सांवत्सरिकक्ष्मापणसन्देशं प्रेषयितुमभीप्सुर्भाद्रपदराकारजन्यामुदितमिन्दु दूतीकृत्य स्ववाचिकं व्याचक्षाणः. प्रथमं विघ्नविघातनिघ्नं नमस्कारात्मकं मङ्गलमभिधेयादिकं च निबध्नाति / स्वस्तीति स्वस्तिश्रीणां भवनमवनी-कान्तपतिप्रणम्यं, प्रौढप्रीत्या परमपुरुष पार्श्वनाथं प्रणम्य / श्रीपूज्यानां गुरुगुणवता-मिन्दुदूतं प्रभूतोदन्तं लेख लिखति विनयो लेखलेखानतानाम् // 1 // अन्वयः-स्वस्तिश्रीणां भवनम् अवनीकान्तपतिप्रणम्यं, परमपुरुषं पार्श्वनाथं प्रौढप्रीत्या प्रणम्य, विनयः लेखलेखानतानां गुरुगुणवतां श्रीपूज्यानां प्रभूतोदन्तम् इन्दुदूतं लेखं लिखति // प्रकाशः-स्वस्तिश्रीणां भवनम्-स्वस्ति-मङ्गलं तच्चासौ श्री:रमा तासां भवनम्-आस्थानम् , कल्याणकमलामन्दिरम् , श्रेयःसम्पदामास्पदमिति यावत् / यद्वा स्वस्तीति पृथक् प्रारम्भ भूयोमङ्गलाय, ततः श्रीणां भवनम्-बाह्याभ्यन्तरसमृद्धीनामुत्पत्तिस्थानमित्यर्थः / 'आमो नाम् वा' / 1 / 4 / 31 / इति वैकल्पिक-नामादेशे