________________ : 142: महिम्नां महावारपारम् आचाराणां भवनम् अवनौ सक्रियाणाम् आकरम् // 115 // (प्रकाशः) नमदसुमताम्-प्रणमत्प्राणिनाम् , आशीर्दम्भाव-आशीर्वादवितरणव्याजेन, धर्मलाभवचनच्छलेन, हस्तविस्तारणेन--करप्रसारणेन, हस्तन्यस्ताविव--करस्थापितौ किमु, निजवशौ-स्वाधीनौ, धर्मलाभौ-शुभादृष्टप्राप्ती, ददानम्-अर्पयन्तम् , कल्याणानां निधिमिव यथा श्रेयसां निधानम् , महिम्नां महावारपारम्-तथा प्रभावविशेषाणां प्रकृष्टसागरम् , ' पारावारः सागरोऽवारपारः ' इति हैमः, आचाराणां भवनम्-सदाचरणानां निलयम् , अवनौ-भुवि, सक्रियाणाम् आकरम्-शुभक्रियाविधीनां खानिम् // 115 // (116) ' अर्हद्धर्म तनुभृतमिवा-स्तोकलोकोपकृत्यै, कैवल्यं वा विदितभुवनं पुंस्वरूपोपपन्नम् / / प्रत्यक्ष वा सुकृतनिचयं शासनस्याहतस्य, मूलं निःश्रे-यसपदतरो-जङ्गमं कल्पवृक्षम् // 116 // ( अन्वयः ) अर्हद्धर्म तनुभृतम् इव वा अस्तोकलोकोपकृत्यै विदितभुवनं कैवल्यं पुंस्वरूपोपपन्नं वा आहेतस्य शासनस्य प्रत्यक्षं सुकृतनिय निःश्रेयसपदतरो मूलं जङ्गमं कल्पवृक्षम् // 116 // (प्रकाशः) अर्हद्धर्मम्-जैनधर्मम् , तनुभृतमिव-धृतशरीरं किम्, वा-अथवा, अस्तोकलोकोपकृत्यै-धनजनोपकाराय, वि