________________ : 143 : दितभुवनम्-विज्ञातविश्वम् , कैवल्यम्-केवलज्ञानम् , पुंस्वरूपोपपन्नम्-पुरुषरूपेणोत्पन्नम् वा-अथवा, आईतस्य शासनस्यजैनेन्द्रप्रवचनस्य, प्रत्यक्षं सुकृतनिचयम्--साक्षात्पुण्यप्राग्भारम् , निःश्रेयसपदतरोर्मूलम्-परमपदपादपस्य मूलम् , जङ्गमं कल्पवृक्षम्-चराचरममरतरुम् // संशयगर्मितोत्प्रेक्षा // 116 // (117) कष्टवातं नतसुमनसां जापमौनप्रयुक्तै- . ग्रन्तं मन्त्रै-रिव पटुतरै-हारिहुँकारनादैः // सम्यग्नाम-स्मरणशमिता-शेषपापोपतापं, लक्षोष्णांशु-पतिभटजग-व्यापितेजःप्रतापम् // 117 ( अन्वयः ) जापमौनप्रयुक्तैः पटुतरैः हारिहुँकारनादैः मन्त्रैः इव नतसुमनसां कष्टवातं घ्नन्तं सम्यग्नामस्मरणशमिता शेषपापोपतापं लक्षोष्णांशुप्रतिभटजगद्व्यापि तेज प्रतापम् // 117 // (प्रकाशः) जापमौनप्रयुक्तैः-पुनःपुनरुच्चारण-वाग्व्यापारराहित्यद्वारासावितैः, पटुतर:-अतिनिपुणैः, हारिहुँकारनादैःमनोहारि हुँ हुँ हुँ इत्युद्घोषैः, मन्त्रैः-देवाराधनशब्दविशेषैः, इवकिम् ,नतसुमनसाम्-प्रणतविबुधानाम् ,कष्टबातम्-आपत्प्रकरम् , अन्तम्-विनाशयन्तम् , सम्यग्नामस्मरणशमिताशेषपापोपतापम्-साध्वभिधानस्मृतिमात्रदूरीकृताखिलाऽशुभकर्मजनितसन्तापम् , लक्षोष्णांशुप्रतिभटजगद्व्यापितेजःप्रतापम्-शतसहस्रकिरणप्रतिस्पर्धिविश्वप्रसारिज्योतिरुद्योतम् // 117 //