________________ : 141: पूर्वोपात्ता-स्खलितसुकृत-श्रेणिसौभाग्यभाजः, काँश्चिन्मौलौ करघटनया लब्धसिद्धीन् सृजन्तम् // 114 ( अन्वयः ) स्फूर्जद्भाग्यान् कतिचन स्निग्धया दशा लोकयन्तं काँश्चिञ्च ईषत्स्मितकलनया स्वायतीन् प्रीणयन्तं पूर्वोपात्तास्खलितसुकृतश्रेणिसौभाग्यभाजः काँश्चित् मौलौ करघटनया लब्धसिद्धीन् सृजन्तम् // 114 // (प्रकाशः ) स्फूर्जद्भाग्यान्-विलसत्सुकृतान्, कतिचनकतिपयजनान्, स्निग्धया दृशा-स्नेहभरभरितचक्षुषा, लोकयन्तम्-निरीक्षमाणम् , काँश्चिञ्च-कियतः पुनः, ईषस्मितकलनया-किञ्चिद्धासदर्शनेन, स्वायतीन्-निजभाविशुभपरिणामान्, प्रीणयन्तम्-प्रसीदयन्तम् , पूर्वोपात्तास्खलितसुकृतश्रेणिसौभाग्यभाजः-पुरा समुपार्जिताव्याहतपुण्यावलिवशीकरणभाग्ययुजः, काँश्चित-काँश्चन जनान् , मौलौ-शिरसि, करघटनया-हस्तसंस्थापनेन, वासचूर्णप्रक्षेपेणेतियावत् , लब्धसिद्धीन्-सिद्धसमृद्धीन् , सृजन्तम्-सम्पादयन्तम् // 11 // (115) . . आशीर्दम्भा-नमदसुमतो हस्तविस्तारणेन, . हस्तन्यस्ता-विव निजवशी धर्मलाभौ ददानम् // कल्याणानां निधिमिव महावारपारं महिम्नामाचाराणां भवन भवना-वाकरं सक्रियाणाम् // 115 // ( अन्वयः) नमदसुमताम् आशीर्दम्भात् हस्तविस्तारणेन हस्तन्यास्ताविव निजवशौ धर्मलाभौ ददानं कल्याणानां निधिमिव