________________ : 135 : तत्रासीनं परिणततप-स्तेजसा पीनमन्तःशुक्लध्यानो-द्भवनवमहो-द्योतितात्मस्वरूपम् / / साक्षात्तीर्थ-ङ्करमिव जग-जन्तुजीवातुभूतं, मूर्त्या शान्ता-द्भुतमधुरया दत्तभव्यप्रमोदम् / / 108 // ( अन्वयः ) तत्र आसीनं परिणततपस्तेजसा पीनम् अन्तःशुक्लध्यानोद्भवनवमहोद्योतितात्मस्वरूपं साक्षात् तीर्थङ्करम् इव जगजीवातुभूतं शान्ताद्भुतमधुरया मूर्त्या दत्तभव्यप्रमोदम् // 108 // (प्रकाशः) तत्र-वर्णितमृगेन्द्रासने, आसीनम्-उपनिषप्रणम् , बद्धपद्मासनेन स्थितम् , आस् आनः ‘आसीनः' / 4 / 4 / 116 / इति आनाकारस्य ईत्त्वे निपातिते आसीनः, यथा 'फलन्ती वर्धते द्राक्षा, पुष्प्यन्ती वर्धतेऽब्जिनी / शयना वर्धते दुर्वा, आसीनं वर्धते बिसम् ' इति / परिणततपस्तेजसा पीनम्-प्रकृष्टतपश्चरणोद्भूतद्युतिभरेण परिपुष्टम् , प्या+क्तः 'क्तयोरनुपसर्गस्य' / 4 / 1 / 92 / इति प्यः पीत्यादेशे पीनः, अन्तःशुक्लध्यानोद्भवनवमहोद्योतितात्मस्वरूपम्-हृदये उज्ज्वलध्यानानुसन्धानजनिताभिनवप्रभाप्रभासितनिजनिर्मलवृत्तम् , साक्षात्तीर्थङ्करमिव-प्रत्यक्षजिनपतिवत्, तीर्यते संसारसमुद्रोऽनेनेति तीर्थं प्रवचनाधारश्चतुर्विधसङ्घः प्रथमगणधरो वा,यदाहुः-'तित्थं भन्ते ! तित्थं तित्थयरे तित्थं, गोयमा ! अरिहा ताव नियमा तित्थंकरे,तित्थं पुण चाउवण्णे समणस पढमगणहरेवा' तत्करोति तीर्थङ्करः 'हेतुतच्छीलानुकूले'-५।१।१०३। इति टे' नवाखित्कृदन्ते'-।३।२।११७। इत्यत्र योगविभागव्याख्यानाद्वैकल्पिको