________________ :136 : मोऽन्तः, जगज्जन्तुजीवातुभूतम्-भुवनजनजीवनौषधरूपम् , 'जीवातुर्जीवनौषधम्' इति हैमः, शान्ताद्भुतमधुरया-प्रशान्ताश्चर्यरसयोगप्रसन्नया, मूा-आकृत्या, दत्तभव्यप्रमोदम्-अर्पितपरमपदगमनयोग्यात्माहादम् , चतुर्दशसूक्तस्थद्वितीयान्तसर्वाणि पदानि पूज्यपादानां विशेषणानि एकविंशतिशतसूक्तस्थश्रीतपगणपतिमित्यनेन विशेष्यानि 'वन्देथाः' इति क्रियान्वयोऽपि तत्रैव ।उपमा // 108 // अभ्यस्तानां गुरुमुखकजा-दागमानां निधानं, साक्षादाद्यं गणधरमिवा-नेकलब्धिप्रधानम् // ज्ञानालोक-प्रकटितजग-त्तत्त्वदत्तावधानं, ध्यानं धयं हृदि निदधतं सिद्विशय्योपधानम् // 109 / ( अन्वयः ) गुरुमुखकजाद् अभ्यस्तानाम् आगमानां निधानं साक्षात् आद्यं गणधरम् इव अनेकलब्धिप्रधान ज्ञानालोक-प्रकटितजगत्तत्त्वदत्तावधानं धर्म्य ध्यानं हृदि निदधतं सिद्धिशय्योपधानम् // 109 // ( प्रकाशः ) गुरुमुखकजाद्-निजगुरुवरवदनकमलात् , अभ्यस्तानाम्-अधीतानाम् , आगमानाम्-सिद्धान्तशास्त्राणाम् , निधानम्-निधिम् , साक्षात्-प्रत्यक्षम् , आद्यं गणधरमिव-अ. क्षीणमहानसादिगणनातीतलब्धिसम्पन्नप्रथमगणधरश्रीइन्द्रभूतिशुभाभिधानगौतमस्वामिनमिव, अनेकलब्धिप्रधानम् नानाप्रभावविशेषविशेषितम् , ज्ञानालोकप्रकटितजगत्तचदत्तावधानम्-चित्प्रकाशप्रकाशितविश्ववस्तुतत्त्वमनोनियोगम् , धम्यं ध्यानम्-धर्मसम्बद्ध