________________ : 134: स्वसदृशरुचा नम्रक्ष्माभृच्छ्रेणीमुकुटघटनाकोमलीभूतधाम्ना गुणयुजा मौक्तिकस्वस्तिकेन उडूनां पतया इव किल व्योम्नः लक्ष्मी निदधता उपेन्द्रपादाञ्चितेन पादपीठेन दीप्रोपान्तम् // // 106-107 // (प्रकाशः ) तस्य-उपाश्रयस्य, मध्ये-अन्तराले, अनुपमम्-अतुलम् , शक्रासनाभम्-सौधर्मेन्द्रसिंहासनसदृशम् , सिंहासनम्-मृगपतिचिहचिह्नितपीठम् उपविष्टसिंहाकृत्यनुकार्यासनं वा सिंहासनम् / सतां चेतः-सज्जनजनमनः, सुखयति-आह्लादयति, एतच्च-इदं पुनः, हृद्यपद्यानुकारम्-मनोज्ञसोपानपद्धतिसदृशशोभम् , सालङ्कारम्-विभूषणभूषितम् , सुघटितमहासन्धिबन्धम्-सुष्ठुयोजितपरस्परावयवसंयोजनसम्बन्धबन्धनम्, सुवर्णम्हैमम् , शोभनरूपं, स्वच्छच्छायम्-उज्ज्वलप्रभम् , सुललितचतुपादसम्पन्नशोभम्-रमणीयचरणचतुष्टयसमन्वितश्रि, स्वसदृशरुचा-निजानुरूपप्रभया, नम्रक्ष्माभृच्छ्रेणीमुकुटघटनाकोमलीभूतघाम्ना-नमनशीलनरपतिततिशिरोऽलङ्करणरचनामृदुभूततेज-- सा, गुणयुजा-गुणगणान्वितेन, मौक्तिकस्वस्तिकेन-मुक्ताफलसम्पादितस्वस्तिकचिह्न, ऊडूनां पङ्क्त्या इव-नक्षत्राणामावल्या इव, किल-निश्चयेन, व्योम्नः-गगनस्य, लक्ष्मीम्-शोभाम् , निदधता-धारयता, उपेन्द्रपादाञ्चितेन-पूज्योपाध्यायपरिकलितेन, पादपीठेन-पादासनेन,दीप्रोपान्तम्-देदीप्यमानसमीपम् , सुखयतीतीहान्वेयम् // 106-107 / / / अथ चतुर्दशभिः सुक्तैराचार्यपादान् स्तौति तत्रेत्यादि