________________ : 133 : जनाश्रयः, अस्ति, मुक्ताचन्द्रोदयपरिचितस्वर्णमाणिक्यभूषाश्रेणीदीप्तः-मौक्तिकसम्पादितवितानविशेषनिचितकनकमणिमाणिक्यालङ्कारावलिदेदीप्यमानः, विविधरचनाराजितस्तम्भशोभीअनेकप्रकारचित्रसङ्घटनासंशोभितस्तम्भशोभाकलितः, सोऽयम्असौ सभामण्डपः, कान्त्या-प्रभाभरेण, ताम्-प्रसिद्धाम् ,मघोनःसुरेन्द्रस्य, श्वन्युवन्मघोनो-' / / 1 / 106 / इति वस्य उः, सुधर्मा सभाम्-सुधर्माभिधानां संसदम्, अनुहरति-अनुकरोति // 105 // ___ (106-107 ) सूक्तयुगलेन व्याख्यानपीठं निरूपयति मध्य इतिमध्ये सिंहा-सनमनुपमं तस्य शक्रासनाभं, चेतश्चैतत् सुखयति सतां हृद्यपद्यानुकारम् / सालङ्कारं सुघटितमहा-सन्धिबन्धं सुवर्ण, स्वच्छच्छायं-सुललितचतुष्पादसम्पन्नशोभम् // 106 // दीप्रोपान्तं स्वसदृशरुचा पादपीठेन नम्रक्ष्माभृच्छ्रेणी-मुकुटघटना-कोमलीभूतधाम्ना // . पङयोडूना-मिव गुणयुजा मौक्तिकस्वस्तिकेन, व्योम्नो लक्ष्मी किल निदधतो-पेन्द्रपादाचितेन॥१०७ (युग्मम् ) ( अन्वयः ) तस्य मध्ये अनुपमं शक्रासना सिंहासनं सतां चेतः सुखयति एतच्च हृद्यपद्यानुकारं सालङ्कारं सुघटितमहासन्धिबन्धं सुवर्ण स्वच्छच्छायं सुललितचतुष्पादसम्पन्नशोभं