________________ : 132: नाम्-अतिशयमदशालिबहुगजराजदानजलतुरगवदनजलपतनार्दीभूताम्, धनजनवातसम्मदखेदात्--निबिडलोकसमूहसङ्घर्षाहत्,ि खिन्नामिव-विह्वलामिव, स्वस्याङ्गणभुवम्-निजप्राङ्गणपृथ्वीम् , द्वारम्-प्रतीहारः, शश्वत्-अनिशम् , ' सदासनाऽनिशं शश्वत् ' इति हैमः, तोरणानामतिप्रेकितैः-बहिद्वरि मङ्गलाय मणिमौक्तिकादिनिर्मितदामरूपा रचना बध्यते तत् तोरणं तेषामतिशयान्दोलितैः, मरुतां प्रेरणेन-समीरणानां प्रसारणेन, स्नेहात्प्रणयतः, आश्वासति इव-सान्त्वयति किमु / उत्प्रेक्षा / / 104 // (105) व्याख्यानमण्डपवर्णनम् मध्य इतिमध्ये तस्याः श्रमणवसते-मण्डपो यः क्षणस्य, सोऽयं कान्त्याऽनुहरति सभां तां सुधर्मा मघोनः॥ मुक्ताचन्द्रो-दयपरिचित-स्वर्णमाणिक्यभूषाश्रेणीदीप्तो विविधरचना-राजितस्तम्भशोभी॥१०५॥ ( अन्वयः ) तस्याः श्रमणवसतेः मध्ये यः क्षणस्य मण्डपः ( अस्ति ) मुक्ताचन्द्रोदयपरिचितस्वर्णमाणिक्यभूषाश्रेणीदीप्तः विविधरचनाराजितस्तम्भशोभी सोऽयं कान्त्या ता मघोनः सुधर्मा सभाम् अनुहरति // 105 / / / (प्रकाशः ) तस्याः-पूर्वदर्शितायाः, श्रमणवसतेः-गोपीपुरस्थोपाश्रयस्य, मध्ये-अन्तः, यः-वर्ण्यमानः यः, क्षणस्यव्याख्यानस्य, उत्सवरूपव्याख्याने क्षणशब्दो रूढोऽवसेयः,मण्डपः