________________ : 131 अथ रथगतान् सादिनश्च शीघ्रम् आटीकमानान् नृजनुषः श्राद्धलोकान् साक्षाद् देवान् इव द्रक्ष्यति // 103 // __ (प्रकाशः ) तस्य-उपाश्रयस्य, द्वाराङ्गणभुवि-प्राङ्गणप्रदेशे, भवान्-श्रीमान् , स्थैर्यमालम्ब्य-निश्चलतां धृत्वा, प. श्यन्-विलोकमानः, अर्थपौरुष्यर्थान्-द्वितीयव्याख्यानपौरुषीव्याख्यानानि, श्रोतुम्-आकर्णयितुम् , रसिकहृदयान्-सरसमनसः, हस्त्यारूढान्-गजवरोपविष्टान् , अथ-पुनः, स्थगतान्-स्यन्दनस्थितान्, सादिनश्च-अश्ववाराँश्च, * अश्ववारः सादी' इति हैमः, शीघ्रम्-त्वरितम् , आटीकमानान्-आगच्छतः, नृजनुषः-नरजन्मात्मकान् , श्राद्धलोकान्-श्रावकजनान् , साक्षाद्प्रत्यक्षम् , देवान् इव-विबुधान् यथा, द्रक्ष्यति-अवलोकयिष्यते // 103 // माद्यद्भूरि-द्विपमदरसा-श्वीयलालानिपातक्लीनां खिन्ना-मिव घनजन-व्रातसम्मदखेदात् // द्वारं स्वस्या-ङ्गणभुवमति-प्रेखितैस्तोरणानां, स्नेहादाश्वा-सयति मरुतां प्रेरणेनेव शश्वत् // 104 // (अन्वयः) माद्यद्भरिद्विपमदरसाश्वीयलालानिपातक्लीनां धनजनवातसम्मदखेदात् खिन्नाम् इव स्वस्य अङ्गणभुवं द्वारं शश्वत् तोरणानाम् अतिप्रेखितैः मरुतां प्रेरणेन स्नेहाद् आश्वासयति इवं // 104 // (प्रकाशः) माद्यद्भूरिद्विपमदरसाश्वीयलालानिपातक्ली