________________ : 130: ( अन्वयः) सुभग ! स्फटिकसरुचौ भित्तौ भित्तौ कुट्टिमे कुट्टिमे च त्वं संक्रामन् आत्तलक्षस्वरूपः भवितासि, एतच्च युक्तम् , अन्यथा युष्मादृशापि एकेन वपुषा तरणिनगरोपाश्रयस्य श्रीः द्रष्टुं न खलु शक्या // 102 // (प्रकाशः ) सुभग ! अयि सौभाग्यसम्पन्न ! शशिन् ! स्फटिकसरुचौ-स्फटिकसमानखच्छकान्तौ, भित्तौ भित्तौ-प्रत्येक कुड्ये, 'कुडयं भित्तिः' इति हैमः / कुट्टिमे कुट्टिमे चपाषाणबद्धभूभागे सर्वत्र, सामन्-प्रतिबिम्बरूपेणान्तर्वर्तिभवन् , त्वम्-श्रीमान्, आत्तलक्षस्वरूपः-स्वीकृतशतसहस्रस्वीयाकृतिः, भवितासि-भविष्यसि, एतच्च युक्तम्-समीचीनं खल्विदम् , अन्यथा-नैवं चेत् , युष्मादृशापि-भवत्कल्पेनापि, एकेन वपुषाअनन्यशरीरेण, तरणिनगरोपाश्रयस्य श्रीः-सूर्यपुरंश्रावकोपाश्रयस्य सम्पत्तिः शोभा, द्रष्टुम्-निरीक्षितुम् , न खलु-नैव, शक्या-समर्था, उत्प्रेक्षा // 102 // (103) उपाश्रयस्य प्राङ्गणप्रदेशं वर्णयति तस्येतितस्य द्वाराङ्गणभुवि भवान् स्थैर्यमालम्ब्य पश्यन्, साक्षाद्देवा-निव नृजनुषो द्रक्ष्यति श्राद्धलोकान् // हस्त्यारूढा-नथ रथगतान् सादिनश्वार्थपौरुव्यर्थाजू श्रोतुंरसिकहृदयाञ् शीघ्रमाटीकमानान् // 103 ___ (अन्वयः ) तस्य द्वाराङ्गणभुवि भवान् स्थैर्यम् आलंब्य पश्यन् अर्थपौरुष्यर्थान् श्रोतुं रसिकहृदयान् हस्त्यारूढान्