________________ : 129 : प्रौढलक्ष्मीनिधानम् अन्तर्वार्हतमतगुरुप्रौढतेजोभिः उद्यज्ज्योतिः मध्यस्थितमघवता ताविषेण उपमेयः महान् श्रावकोपाश्रयः अस्ति // 101 // (प्रकाशः ) इह-श्रीसूर्यपुरे, मध्ये गोपीपुरम्-गोपीपुरस्य मध्यभागे, * पारे मध्येऽऽन्तः षष्ठया वा ' / 3 / 1 / 30 / इति षष्ठीसमासोऽव्ययीभावः, कैलासाद्रिप्रतिभट इव-हिमाचलप्रतिस्पर्धिसुभटवत् , ' कैलासे धनदावासो हरादिर्हिमवद्धसः' इति शेषः, प्रौढलक्ष्मीनिधानम्-प्रकृष्टपद्माश्रयः, यथा धनदप्रतिबद्धा श्रीस्तदावासे कैलासे वसति तथा तत्तुल्येऽत्रोपाश्रयेऽपीतिभावः / अन्तर्व ाहतमतगुरुप्रौढतेजोभिः-मध्यस्थितजैनशासनाचार्याणां प्रवृद्धप्रभाभिः, उद्यज्योतिः-चकासत्कान्तिः, प्रसरत्प्रभ इति यावत्, मध्यस्थितमघवता-मध्ये स्थितो मघवान् यत्र तेन, अन्तर्निषण्णविबुधस्वामिना, ताविषेण-स्वर्गेण, ' स्वर्गस्त्रिविष्टपं द्यौ दिवौ भुविस्तविषताविषौ ' इति हैमः / उपमेयः-सादृश्ययोग्यः, यथा स्वर्गे सुरेशः सुराश्च तथाऽत्रोपाश्रये सूरीश्वरः श्राद्धाश्चेतिभावः, महान्-श्रेष्ठः, विशाल इतियावत्, श्रावकोपाश्रयः-श्राद्धावश्यकंक्रियाकरणावासः, अस्ति-वर्तते // उपमा // 101 // (102) . भित्तौ भित्तौ स्फटिकसरुचौ कुहिमे कुहिमे च, संक्रामँस्त्वं सुभग ! भविताऽस्यात्तलक्षस्वरूपः // युक्तश्चैत-त्तरणिनगरो-पाश्रयस्यान्यथाश्रीद्रष्टुं शक्या न खलु वपुषै-केन युष्मादृशापि // 102 //