________________ :128 : नन्दं चित्रैः चित्रम् अर्हगृहाणां वृन्दं वीक्ष्य कः जनः अन्तः न चित्रीयते // 10 // (प्रकाशः) इह-नगरेऽस्मिन् , शिल्पिप्रष्टैः-कुशलकारुभिः, रचितविविधानेकविज्ञानहृयम्-सम्पादितानेकप्रकारप्रचुरशिल्पसुन्दरम् , कनकखचितैः-सुवर्णसमन्वितैः, स्वर्णसम्पृक्तैरितियावत्, 'मिश्रःसम्पृक्तः खचितः' इति हैमः, हिङ्गुल्वाद्यैःहिङ्गलप्रमुखैः, रक्तवर्णप्रभृतिभिरितियावत् , वर्णकैः-वर्णैः, स्वार्थेकः, ( रङ्ग इतिभाषायाम् ) वर्णनीयम्-रमणीयम् , निरूपणीयमितियावत् , सहृदयहृदाम्-रसिकहृदयानाम् , सुमनसां मनसामितियावत् , दत्तानन्दम्-अर्पिताहादम् , चित्रैः चित्रम्-आलेख्यैरनुपमम् , अर्हगृहाणां वृन्दम्-जिनालयकदम्बम् , वीक्ष्य-दृष्ट्वा, कः नो विस्मयमुपैति, विलोक्य विभूनां विहारनिकरमत्रत्यममरा अपि आश्चर्यमुपयन्ति का वार्ता प्राकृतप्राणिनामितिभावः // 10 // (101) तत्र गोपीपुरमध्यस्थितमुपाश्रयं सूक्तद्वयेन बर्णयति मध्य इतिमध्ये गोपी-पुरमिह महाञ् श्रावकोपाश्रयोऽस्ति, कैलासादि-प्रतिभट इव प्रौढलक्ष्मीनिधानम् // अन्तर्वृत्या-हतमतगुरु-प्रौढतेजोभिरुद्य- . ज्ज्योतिर्मध्य-स्थितमघवता ताविषेणोपमेयः // 10 // ( अन्वयः ) इह मध्ये गोपीपुरं कैलासाद्रिप्रतिभट इव