________________ : 127: मान्याः-भुवनाभिमताः, वदान्याः-दानशौण्डाः, अमितविभवाः-प्रमाणातीतैश्वर्यशालिनः, प्रौढशाखाप्रशाखा:-प्रवृद्धपुत्रपौत्रादिसन्ततिपरिवाराः, सङ्ख्यातीताः-गणनातीताः, श्राद्धाःश्रमणोपासकाः सन्तीतिशेषः, कुत्रापि-स्थलविशेषे तु, आद्याघरकजनिता:-प्रधानप्रथमारकोत्पादिताः, यद्वा एकान्तसुषमसुषमसुषमदुःषमाख्यप्रथमप्रमुखत्रयारजनिताः, संस्थिताः-इदानीं यावत् स्थितिमापन्नाः, कल्पवृक्षाः-सुरद्रुमाः, तपगणपतिप्रौढपुण्यानुभावात्-श्रीमत्तपागच्छाधिपतिप्रकृष्टसुकृतप्रभावात् , प्रादुभृताः-बहिरागताः, अयमाशयः कल्पवृक्षास्तु प्रथमाघरकत्रये एव सम्भवन्ति परमत्रैते वाञ्च्छामात्रपरिपूरकाः श्राद्धकल्पवृक्षा अधुना कुतः दृश्यन्ते ? नात्र चित्रं ते कल्पवृक्षा एवैतावत्कालं प्रच्छन्नरूपेणासन् परमाचार्यपादप्रभावात् प्राप्ताः प्रकटतामेते श्राद्धरूपेणेतियावत् / उत्प्रेक्षागर्भितरूपकम् // 99 // (100) . श्रीसूर्यपुरस्याहन्मन्दिरवर्णनं शिल्पिप्रष्टैरितिशिल्पिप्रष्टै रचितविविधा-नेकविज्ञानहृद्यं, हिङ्गुल्वाद्यैः कनकखचितै-वर्णकैवर्णनीयम् // दत्ताऽऽनन्दं सहृदयहृदां वृन्दमहद्गृहाणां, चित्रश्चित्रं क इह न जनो वीक्ष्य चित्रीयतेऽन्तः // 10 // ( अन्वयः ) इह शिल्पिप्रष्ठैः रचितविविधानेकविज्ञानहृद्यं कनकखचितैः हिङ्गुल्वाद्यैः वर्णकैः वर्णनीयं सहृदयहृदां दत्ता