________________ : 126 : स्वर्णप्रकरघटनप्रोत्थितैः-रजतकनकसमूहसङ्घटनसमुत्थितैः, मुद्रादिकरणे टङ्काघातेनोद्भूतैरितियावत् , टङ्कशालागमोद्भूतप्रतिरवशतैः-मुद्रामुद्रणालयान्तरालप्रादुर्भूतप्रतिशब्दशतैः, तारतारैःअत्युच्चैः, टकारैः-टंटम् इत्यात्मकः, दुष्टदौर्गत्यभूतः-दुःखदायिदारिद्र्यपिशाचः, प्रभवितुम्-उपद्रोतुं, अलम्-समर्थः,न हि-नैव, भवतीतिशेषः, हि-यतः, क्षौद्रे-अधमसबन्धिनि, उपशमविधौशान्तिप्रकारे, मन्त्रसार:-मन्त्रवरः, टकारः-टङ्कारः, शिवेन सम्पाद्य प्रलयताण्डवं टङ्कारमन्त्रेण सर्वे भूतपिशाचादयः स्ववशीकृता इतिपुराणे, ' टङ्कारबलगर्वितः, इति विशेषणमपि शिवस्य प्रसिद्ध साहित्ये, पूतः-पवित्रः, अप्युत्तम इतियावत् // 98 // (99) सूर्यपुरीयश्राद्धजनवर्णनम् यत्रेतियन्त्र श्राद्धा-स्ततसुमनसो विश्वमान्या वदान्याः, सङ्ख्यातीता अमितविभवाः प्रौढशाखाप्रशाखाः / / कुत्राप्याद्या-द्यरकजनिताः संस्थिताः कल्पवृक्षाः, प्रादुर्भूता-स्तपगणपति-प्रौढपुण्यानुभावात् // 19 // ( अन्वयः ) यत्र ततसुमनसः विश्वमान्याः वदान्याः अमितविभवाः प्रौढशाखाप्रशाखाः सङ्ख्यातीताः श्राद्धाः (सन्ति) कुत्रापि आद्याधरकजनिताः संस्थिताः कल्पवृक्षाः तपगणपतिप्रौढपुण्यानुभावात् प्रादुर्भूताः // 99 // - (प्रकाशः) यत्र-यस्मिन् सूर्यपुरनगरे, ततसुमनसःविस्तृतप्रशस्तचित्तान्विताः, सुरेभ्योऽप्यधिका इति यावत् , विश्व