________________ : 125 : प्रकरान्, गणनाकोविदोऽपि-सङ्ख्यानसङ्ख्यावानपि, गणितज्ञप्रवरोऽपि, कः-को जनः, द्राक्-अविलम्बेन, सङ्ख्यातुम्-गणयितुस्, क्षमेत-स्यात्समर्थः, विरजःस्वर्णमाणिक्यपुञ्जान्-निर्मलहिरग्यमाणिक्यप्रमुखमणिविशेषनिकरान् , च-पुनः, गुञ्जानेमारुणतररुचीन-कृष्णलार्धातिरक्तकान्तीन् , गुञ्जाया नेमस्तद्वदरुणतरा रुचिर्येषान्ते तान् , ' कृष्णला तु गुञ्जा ' ' खण्डेऽर्धशकले भित्तं नेमशल्कदलानि च' इति हैमः विद्रुमाणाम्-प्रवालानाम् , अडरान्-अङ्करान् , अग्रभागानितियावत् , कः-कः प्रमाता, मातुम्प्रमातुम् , ईष्टे-सामर्थ्यमवाप्नुयात् , इव-यथा, यथाऽत्रत्यकनकमणिमाणिक्यप्रवालाङ्करादिपुञ्जान् गणयितुं न कश्चिदीशस्तथाब्धिपरतटागतान्यपदार्थप्रकरानपि सङ्ख्यातुं न कश्चित्समर्थः // 97 // (98) अत्रत्यां टङ्कशालां निरूपयति रूप्येतिरूप्यस्वर्ण-प्रकरघटन-प्रोत्थितैष्टङ्कशालागर्भोद्भूत-प्रतिरवशतै-स्तारतारैष्टकारैः // - नात्र कापि प्रभवितुमलं दुष्टदौर्गत्यभूतः, पूतः क्षौद्रे ह्युपशमविधौ मन्त्रसारष्टकारः // 9 // ( अन्वयः ) अत्र क्वापि रूप्यस्वर्णप्रकरघटनप्रोत्थितैः टङ्कशालागर्भोद्भूतप्रतिरवशतैः तारतारैः टकारैः दुष्टदौर्गत्यभूतः प्रभवितुम् अलं न हि क्षौद्रे उपशमविधौ मन्त्रसारः टकार: पूतः / / 98 // (प्रकाशः) अत्र-सूर्यपूरे, कापि-कुत्रचिदपि स्थाने, रूप्य