________________ : 124 : विक्रयाय-मूल्यमासाद्य परार्पणव्यापाराय, विस्तृतैः-व्यासतः स्थितैः,कुसुमैः-प्रसूनैः, शुभ्रच्छायम्-उज्ज्वलकान्ति, कुत्रचिच्चकुहचन तु, अतिपरिणतै:-बहुपक्कैः, चङ्गः-हृदयङ्गमैः, इक्षुदण्डैःपुण्ड्यष्टिभिः, पिङ्गम्-पीतरक्तम् , अतिपरिणता हि त इक्षुदण्डाः कपिलवर्णा भवन्तीतिभावः, इति-एवंस्थिते, इदं पुरम्-नगरमेतत् , सर्वदापि-अनिशमेव, नानावर्णम्-विविधरूपम् , द्योतते-राजते, चित्रवञ्चकास्तीति यावत् // 96 / / (97) / पूर्वसूक्तेन केवलमत्र पत्रपुष्पपुण्ड्रप्रमुखमेव विक्रीयते नान्यदिति मा भूद्रमोऽत आह पोतोत्तीर्णेति पोतोत्तीर्णा-म्बुधिपरतटो-भाविनो वस्तुवृन्दान् , दाक् सङ्ख्यातुं क इह गणना-कोविदोऽपि क्षमेत / / इष्टे मातुं क इव विरजः-स्वर्णमाणिक्यपुञ्जान् , गुञ्जानेमा-रुणतररुची-चाङ्कुरान विद्रुमाणाम् // 97|| ( अन्वयः ) इह पोतोत्तीर्णाम्बुधिपरतटोद्भाविनः वस्तुवृ. न्दान् गणनाकोविदोऽपि कः द्राक् सङ्ख्यातुं क्षमेत विरजःस्वर्णमाणिक्यपुञ्जान् च गुञ्जानेमारुणतररुचीन विद्रुमाणाम् अङ्कुरान् कः मातुम् इष्टे इव // 97 / / (प्रकाशः ) इह-सूर्यपुरे, पोतोत्तीर्णाम्बुधिपरतटोद्धा. विनः-प्रवहणसमागतसमुद्रपश्चिमकूलसम्भूतान्', सागरावरतीरसञ्जातान् तरीद्वारा आनीताश्चेतियावत्, वस्तुवृन्दान्-पदार्थ