________________ : 123: समायातस्यास्य सरसः, इदं हि सरः क्षीराब्धेः शिशुरूपेणासीत् तत्सन्निधावेव परं यदा क्षीरोदस्य मथनमभूत्तदा भयभीतमेतत् ततो पलाय्यात्र भीतिरहितप्रदेशे समागतमित्यधुनापि तद्भयजनितकम्पेनात्र तरङ्गाणि समुच्छलन्ति महता वेगेनेत्याशयः, वीचिक्षोभः-तरङ्गाणामतिवेगसञ्चारः, आस्त इति शेषः / उत्प्रेक्षा // 95 / / . (96) नगरं नानाविधवर्णरूपेण निरूपयति नीलेतिनीलच्छायं कचिदविरलै-नागवल्लीदलौघैः, शुभ्रच्छायं कचन कुसुमै-विस्तृतैर्विक्रयाय // पिङ्ग चङ्गै-रतिपरिणतैः कुत्रचिच्चेक्षुदण्डैनावण पुरमिदमिति द्योतते सर्वदापि // 96 // . ( अन्वयः ) क्वचित् अविरलैः नागवल्लीदलौघैः, नीलच्छायं वचन विक्रयाय विस्तृतः कुसुमैः शुभ्रच्छायं कुत्रचिच्च अतिपरिणतैः चङ्गैः इक्षुदण्डैः पिङ्गम् इति इदं पुरं सर्वदापि नानावर्ण द्योतते // 96 // (प्रकाशः) क्वचित्-स्थलविशेषे, अविरलैः-सधनैः, नागवल्लीवलोधैः-ताम्बूललतायाः पलाशकलापैः, अनेन अत्रत्य प्रदेशे ताम्बूलपत्राणां प्रचुरोत्पत्तिर्जनाश्च तदास्वादने बद्धस्पृहा इति व्यज्यते, पातालानीतत्वात् नागस्य वल्ली नागवल्ली, नीलच्छायम्हरित्प्रभम् , यद्यपि नीलशब्दस्य श्यामवणे शक्तत्वेऽपि प्रकृते तात्पर्यानुपत्तितः पीतनीले लक्षणावसेयाऽथवा सेनो भीमसेन इतिनीलः पीतनील इति हरिदर्थो विज्ञेयः, क्वचन-कस्मिँश्चत्स्थाने,