________________ : 122 : (95) श्रीसूर्यपुर एको विभागो गोपीपुरेत्याख्यया ख्यातिमधिगतवान्नास्ते तत्र निदानं तन्निकटवर्तिगोपीनामसरस्तत्खलु ग्रन्थकारसमये सुन्दरं महच्चासीदिति कृतवर्णनतोऽनुमीयते तथाहि गोपीति गोपीनाम्नः किमिह सरसो वर्णयामो महत्त्वं, यत्क्षीराब्धेः कलयति कलां मथ्यमानस्य नो चेत् // आस्ते कुक्षौ किमिह निहितो मेरुरद्यापि किंवा, वीचिक्षोभो मथनजनित-त्रासतोऽत्रागतस्य / / 95 / / ( अन्वयः ) इह गोपीनाम्नः सरसः महत्त्वं किं वर्णयामः यतमथ्यमानस्य क्षीराब्धेः कलां कलयति नो चेत् इह कुक्षी अद्यापि कि मेरुः निहितः आस्ते किंवा मथनजनितः अत्र आगतस्य वीचिक्षोभः ( आस्ते ) // 95 // . (प्रकाशः ) इह-सूर्यपुरे, गोपीनाम्नः-गोपीतिप्रसिद्धाभिधानस्य, सरसः-सरोवरस्य, महत्वम्-श्रेष्ठताम् , रमणीयतामिति. यावत्, किं वर्णयामः-कितावत् कथयामः, यत्-यत्सरः, मथ्यमानस्य क्षीराब्धेः-मथनमापाद्यमानस्य दुग्धाम्बुधेः, कलाम्-शोभाम् , विभूतिमितियावत्, कलयति-अङ्गीकरोति, नो चेत-नैवं सति, तत्र सरसि घूघूरवो महान् तरङ्गभङ्गश्च भवत्त इत्यत्र किं कारणम् , तदर्थमुत्प्रेक्षते उत्तरार्धेन-इह कुक्षौ-सरसो मध्यभागेऽत्र, अद्यापि-एतद्दिनावधिरपि, कि मेरु:-किमुत मन्दरमहीधरः, निहितः-संस्थापितः, आस्ते-वर्तते, किंवा-किमथवा, मथनजनितत्रासतः-विलोडनोत्पादितभयतः, अत्र-इह, आगतस्य