________________ : 121 : न्धरः सौधच्छदिरुपचितः मौक्तिकच्छत्रशाली नानायन्त्रप्रहरणधरः युद्धसज्जोग्रशस्त्रः एष दुर्गः धैर्यगर्वोद्धरस्य क्षत्रस्य सुषमा श्रयति // 94 // (प्रकाशः ) इह-श्रीसूर्यपुरपरितः, भर्गोज्ज्वलवपुः-सूर्यमण्डलस्थितप्रभाप्रतिमप्रभया विशदकायः, 'आदित्यान्तर्गतं वर्ची भाख्यम्' इति याज्ञवल्क्यः, चन्द्रशालादम्भात्-शिरोगृहव्याजात् , प्राकारोपरि क्वचित्क्वचिच्चन्द्रशालाशालिसदनानि भवन्तीतिभावः, उत्कन्धरः-उन्नतग्रीवः, सौधच्छदिरुपचितः--प्रासादपटलपरिपुष्टः, छाद्यतेऽनेन च्छदिः क्लीबलिङ्गः 'रुच्यर्चि-' (उणा० 989 ) इतीस् ' छदेरिस्मन्-'।४।२।३३। इति ह्रस्वः, 'पटलच्छदिषी समे' इति हैमः / मौक्तिकच्छत्रशाली-मुक्तासंशोभितातपवारणविराजितः, भवति हि प्राकारे शुक्तिजराजिरचनारम्यं छत्रं विशिष्टपाषाणसम्पादितं यत्र हि विश्रामार्थ स्थीयते जनैरितिभावः, छाग्रत इति च्छत्रम् , उणादित्वात्रट पूर्ववद्धस्वश्च, नानायन्त्रप्रहरणधरः-विविधयन्त्रायुधभृत् , युद्धसज्जोग्रशस्त्रः-युद्धाय सज्जानि उग्रशस्त्राणि यत्र सः, रणसन्नद्धतीक्ष्णास्त्रः, एष दुर्गः-अयं प्राकारः, धैर्यगर्वोद्धरस्य-धीरताभिमानोन्नतस्य, क्षत्रस्य-क्षत्रियस्य, 'क्षतात् किल त्रायत इत्युदग्रः, क्षत्रस्य शब्दो भुवनेषु रूढः ' इति रघुवंशः, सुषमाम्-रामण्यम् , श्रयति-अनुकरोति,. यथा राजन्यस्तेजसा जाज्वल्यमानशरीरः उन्नतग्रीवः प्रासादपटलोपेतः मुक्ताछत्रशाली नानायन्त्रशस्त्रशाली समरसन्नद्धतीव्रप्रहरणो भवति तथायं दुर्गोऽपीति भावः // // उपमा // 94 //