________________ : 120 : जाग्रजैत्रध्वजपरिगतान् , जङ्गमद्रङ्गतुल्यान् एतान् पश्यन् कः जनः विक्षिप्तचेताः न भवति // 93 // __ (प्रकाशः ) चतुर !-दक्ष ! दक्षदुहितृदयित !, कुक्षिनिक्षिप्तनानावस्तुस्तोमान्--क्रोडनिहितानेकप्रकारपदार्थप्रकरान् , अनेन बालस्वभावो वर्णितः जलनिधेः-समुद्रस्य, पोतानिवपृथुकवत् , पुनाति गात्रमितिपोतः, पोतान्-प्रवहणान् , ' वोहित्थं वहनं पोतः' इति हैमः। पश्यतः-दरीदृश्यतः, ते-तव, विलम्बःभूयान्कालक्षेपः, भविता-भविष्यति, जाग्रजैत्रध्वजपरिगतान्प्रस्फुरद्विजयशीलपताकापरिकलितान् , जैतैव जैत्रः प्रज्ञादित्वादण , जङ्गमद्रङ्गतुल्यान्-चराचरनगरनिभान्, एतान्-प्रत्यक्षस्थितान् पोतान् , पश्यन्-विलोकमानः, कः जनः-को हि प्राणी, विक्षिप्तचेताः-अद्भुतदर्शनजन्याश्चर्येणास्वस्थस्वान्तः, विस्फारितविलोचनः विचलितचित्तश्च जायते जनोऽकल्पितावलोकनेनेत्याशयः, न भवति-न खलु जायते, अर्थात् सर्वोऽपि लोकः प्रभवत्येव // 93 // (94) सूर्यपुरस्य प्राकारं वर्णयति दुर्ग इतिदुर्गों भर्गो-ज्ज्वलवपुरिहो-त्कन्धरश्चन्द्रशालादम्भात्सौध-च्छदिरुपचितो मौक्तिकच्छन्नशाली॥ नानायन्त्र-प्रहरणधरो युद्धसज्जोग्रशस्त्रः, क्षत्रस्यैष श्रयति सुषमा धैर्यगोंडुरस्य // 14 // (अन्वयः ) इह भोज्ज्वलवपुः चन्द्रशालादम्भात् उत्क