________________ : 119: (प्रकाशः) नगरम् अभितः-सूर्यपुरं परितः, 'सर्वोभयाभिपरिणा तसा ' / 2 / 2 / 35] इति द्वितीया, उद्यानानाम्आक्रीडानाम् , उपवनानामिति यावत् , सन्ततिः-श्रेणी, विविधसुमनःसंवितानाम्-नानाप्रकारप्रसूनपरीतानाम् , लतानाम्-वल्लरीणाम् , 'व्रततिर्वल्लरी लता' इति धनञ्जयनाममाला, लक्षैः नानावृक्षः-शतसहस्रसङ्ख्यैरनेकप्रकारैः पादपैः, क्रीडदम्पत्युचितकदलीमन्दिरैः-विलसज्जायापतियोग्यरम्भासदनैः, बालकानां गेहै:-शिशूनां हम्यः, क्रीडाभवनसरसीदीर्घिकावापिकाभि:लीलावाससरोवरादिजलाशयविशेषैः, शतत्रयधनुःप्रमितायत-परिमाणा दीर्घिका, शतचतुष्टयप्रमितस्तु द्रोणस्ततो दशगुणा वापिका, यदुक्तम् , 'शतेन धनुर्भिः पुष्करिणी, त्रिभिर्दीर्घिका चतुर्भिर्दोणः, पञ्चभिस्तडागः, द्रोणाद्दशगुणा वापी' इति, भाति-विराजति।।९२॥ . (93) तत्र तपनतनयातटिनीतटस्थितंतरीततिराश्चर्यजननीत्याह पोतानिति पोतान् पोता-निव जलनिधेः कुक्षिनिक्षिप्तनानावस्तुस्तोमाँश्चतुर ! भविता पश्यतस्ते विलम्बः॥ जाग्रज्जैत्र-ध्वजपरिगता-अङ्गमद्रगतुल्यान्, पश्यन्नेता-न भवति जनः कोऽत्र विक्षिप्तचेताः // 13 // ( अन्वयः ) चतुर ! कुक्षिनिक्षिप्तनानावस्तुस्तोमान् जलनिधेः पोतानिव पोतान् पश्यतः ते विलम्बः भविता, अत्र