________________ : 996 ( प्रकाशः ) तत्र-सूर्यपुरदेशे, उद्याने-आक्रीडे, उपवन इति यावत् , ' आक्रीडः पुनरुद्यान' मिति हैमः, / पुष्पैः दीप्ताप्रसूनैः प्रकाशिता, अविरलदला-सघनपत्रा, पूर्णपर्णेतियावत् , फलैः पल्लवैश्च लक्षिता-फलकिसलयकलापाभिव्यक्ता, ' नवे तस्मिन् किसलयं किसलं पल्लवः' इति हैमः / चम्पकानां मण्डली-हेमपुष्पकानां चक्राकारेणं समूहस्थितिः, ' चम्पको हेमपुष्पकः / इति हैमः। अमसृणसृणिम्-कठिनाङ्कुशाम् , न मसृणः अमसृणस्तादृशः सृणियंत्र ‘ताम् , ' मसृणोऽकठिने स्निग्धे, इत्यनेकार्थसङ्ग्रहः, ' अङ्कुशः सृणिः' इति हैमः / हेमघण्टावलीढाम्-कनकवरकिङ्किणीकलिताम् , चित्रैर्गुच्छै:-नानाविधस्तबकैः, विविधभरणैः-अनेकप्रकारालङ्करणैः, वस्त्रखण्डै :वसनविभागः, मण्डिताम्-विभूषिताम् , नागश्रेणीम्-करिवरावलिम् , तुलयति-सदृशयति / / उपमा // 91 / / (92) उद्यानानां नगरमभितः सन्तति ति नानावृक्षल:-विविधसुमनः-संवितानां लतानाम् / / क्रीडदम्पत्युचितकदली-मन्दिरैालकानां, गेहैः क्रीडा-भवनसरसी-दीपिकावापिकाभिः / / 12 / / ( अन्वयः ) नगरम् अभितः उद्यानानां सन्ततिः विविध सुमनःसंवितानां लतार्ना लक्षैः नानावृक्षः क्रीडद्दम्पत्युचितकदलीमन्दिरैः बालकानां गेहैः क्रीडाभवनसरसीदीर्घिकावापिकाभिः भाति // 92 //