________________ : 117 : निति नम्रीभूताः, फलभारेणावनता इतियावत् , कम्राः-मनोज्ञाः, कदल्यः-रम्भाः, स्वर्णैः-कनकाभरणभारैः, धनवताम्-श्रीमताम् , योषा इव-यथा कामिन्यः, पोषायोषित् ' इति हैमः / हिरण्यालङ्कारकलापनम्रीभूतकनलक्ष्मीपतिललनावत् कदल्योऽपि राजन्त इतिभावः / स्निग्धच्छायैः-स्निग्धा छाया येषान्ते तैः, रसिकप्रतिबिम्बैः, मसृणप्रभैरिति यावत् , 'स्निग्धे मसृणचिक्कणे' इति हैमः / मधुरफलदैः-स्वादुफलार्पकैः, गोस्तनीनाम्-मृद्वीकानाम् ,गोस्तनाभा-गोस्तनी 'द्राक्षा तु गोस्तनी मृद्वीका' इति हैमः, मण्डपैःजनविश्रामस्थानः, कान्ताः-मनोरमाः,बनान्ताः-विपिनविभागाः, सुमनसाम्-प्रज्ञाशालिनाम् , पण्डितानामितियावत् , गेहै:-सदनैः, ग्रामा इव-लघुपत्तनानि यथा, यथा विबुधानां निवासामा राजन्ते तथा द्राक्षाणां मधुरमण्डपैर्वनखण्डा अपीतिभावः, मन्ति-वर्तन्ते / उपमा // 90 // . . (91) सूक्तद्वयेन तत्रत्यमुद्यानं वर्णयति दीप्तति दीप्ता पुष्पै-रविरलदला मण्डली चम्पकानां, तत्रोद्याने तुलयति फलै-लक्षिता पल्लवैश्च // नागश्रेणी-मममृणमृणिं हेमघण्टावलीढां, [चित्रैर्गुच्छै-विविधभरणै-मण्डितां वस्त्रखण्डैः] 91 ( अन्वयः ) तत्र उद्याने पुष्पैः दीप्ता अविरलदला फलैः पल्लवैश्च लक्षिता. चम्पकानां मण्डली अमसृणसृणिं हेमघण्टाघलीढां चित्रैर्गुच्छः विविधभरणैः वस्त्रखण्डैः मण्डितां नागश्रेणी तुलयति // 91 //