________________ : 116 : नेहरौ' इति हैमः / बहोर्णीष्ठे भूय्' / 7 / 4 / 40 / इति भूयादेशे भूयिष्ठः, अर्हत्समवसरणापास्तदोषाम् इव-यथा तीर्थपतिदेशनास्थानदूरीकृतापायाम् ,यत्र जिननाथस्य विहरणमुपदेशभूमिश्च भवति तत्र सपादयोजनशतप्रमितप्रदेशे पूज्यपरमात्मपादप्रभावात् रोगवैरेतिमार्यतिवृष्ट्यवृष्टिदुर्भिक्षस्वपरचक्रभयादयो दोषा न सम्भवन्ति तथेतिभावः / क्ष्माम्-वसुन्धराम् , त्वम् द्रक्ष्यसि-प्रत्यक्षं प्रापयिष्यसि || उपमा // 89 // (90) . तत्र कम्राः कदल्यो नितान्ता वनान्ताश्च सन्तीत्याह नम्री. भूता इति-- नम्रीभूताः प्रतिपदमहो लुम्बिवृन्दैः फलानां, स्वर्णैर्योषा इव धनवतां सन्ति कम्राः कदल्यः / / स्निग्धच्छायै-मधुरफलदै-मण्डपैर्गोस्तनीनां, गेहैामा इव सुमनसां तत्र कान्ता वनान्ताः // 90 // ( अन्वयः ) तत्र अहो प्रतिपदं फलानां लुम्बिवृन्दैः नम्री. भूताः कम्राः कदल्यः स्वर्णैः धनवतां योषा इव स्निग्धच्छायैः मधुरफलदैः गोस्तनीनां मण्डपैः कान्ताः वनान्ताः सुमनसां गेहैः ग्रामा इव सन्ति // 90 // (प्रकाशः) तत्र-सूर्यपुरोपान्तप्रदेशे, अहो-अद्भुतम् , प्रतिपदम्-स्थाने स्थाने, फलानां लुम्बिवृन्दैः-लम्बायमानफलसमूहै:, मध्यस्थितेषत्स्थूलयष्टिकामवलम्ब्य परीतोऽधाऽधः कदलीफलानि शतशो भवन्तीतिभावः, नम्रीभूता:-अनम्रा नम्रा अभव