________________ : 115: अपटुबटुरपि कः प्राणी, नो लजते-नहि जिहेति अर्थात् सर्वेऽपि बीडामनुभवन्ति // 88 // (89) आचार्यपादविहरणतोऽत्रत्या भूमिर्दोषापेता समृद्धिभूयिष्ठा च वर्तते इत्याह तत्रेति तत्र श्रीम-त्तपगणपतेः सद्विहारानिलोमिप्लुष्टातङ्कां फलदलसुम-स्फातिसम्पन्नवृक्षाम् / इष्टानेहः-परिगतघनो-ड्रासिभूयिष्ठशस्यां, द्रक्षस्यह-त्समवसरणा-पास्तदोषामिव क्ष्माम् / / 89 // . ( अन्वयः ) तत्र श्रीमत्तपगणपतेः सद्विहारानिलोमिप्लुष्टातङ्कां फलदलसुमस्फातिसम्पन्नवृक्षाम् इष्टानेहःपरिगतघनोद्भासिभूयिष्ठशस्याम् अर्हत्समवसरणापास्तदोषाम् इव क्ष्मां (त्वं) द्रक्ष्यसि // 89 // . (प्रकाशः ) तत्र-श्रीसूर्यपुरप्रदेशे, श्रीमत्तपगणपतेःश्रीमत्तपागच्छस्वामिनः, श्रीतपागणगगनाङ्गणगगनमणेरितियावत् , सद्विहारानिलोमिप्लुष्टातङ्काम्--शोभनचरणसञ्चरणसमीरलहरीक्लान्तक्लमाम् , फलदलसुमस्फातिसम्पन्नवृक्षाम्-फल-पत्र-पुष्पवृद्धि-समृद्धि-समन्वितद्रुमाम् , ' स्फातिवृद्धौ' इति हैमः / इष्टानेहःपरिगतघनोद्भासिभूयिष्ठशस्याम्-अभीष्टसमयसमागतस्तनयित्नुविकासिबहुतरधान्याम् , काले वर्षति मेघ इति शस्यनिष्पत्तिः साधीयसी भवत्यत्रेत्याशयः। न ईहते चेष्टते अनेनाघ्रात इत्यनेहाः 'नत्र ईहे-' (उणा०९७५) इत्यस् , 'समयो दिष्टा