________________ एनां सङ्ग-च्छति जलनिधिः प्रत्यहं द्विस्त्रिरस्याः, सौभाग्येना-तिशयगुरुणा कार्मणेनेव वश्यः।। अभ्रच्छन्न-स्त्वमपि भविता-स्येतयोर्योगकाले, पित्रोः पश्यन् क इह सुरतं लजते नो जडोऽपि / 88 // ( अन्वयः ) अस्याः अतिशयगुरुणा सौभाग्येन कार्मणेन वश्यः इव जलनिधिः प्रत्यहं द्विस्त्रिः एनां सङ्गच्छति, एतयोः योगकाले त्वमपि अभ्रच्छन्नः भवितासि, ( यतः ) इह पित्रोः सुरतं पश्यन् जडोऽपि कः नो लजते // 88 // (प्रकाशः) अस्या:-तापीतटिन्याः, अतिशयगुरुणामहत्तरेण, सौभाग्येन कार्मणेन-स्वामिस्नेहसम्पादकभाग्यविशेषरूपमूलकर्मणा, सन्दिष्टं कर्मैव कार्मणं वृद्धपरम्परोपदेशात् 'कर्मणः सन्दिष्टे ' / 7 / 2 / 167 / इति स्वार्थिकोऽण् -- कार्मणं मूलकर्म ' इति हैमः / वश्य:-स्वाधीनः, इव-किमु, जलनिधिःमकराकरः, प्रत्यहम्-सदैव, द्विस्त्रिः-द्विवारं त्रिवारम् , ' द्वित्रिचतुरः सुच् ' / 7 / 2 / 110 / इति सुच् , एनाम्-पुरो विलसन्ती तापीनदीम् , सङ्गच्छति-सङ्गममनुभवति, संपूर्वकस्य गम् धातोः ' समोगमृच्छि-' / 3 / 3 / 8 / / इति कथं नाम नात्मनेपदतेति न शक्यम् , कर्मासत्त्वे तद्विधानात् , प्रकृते तु कर्मणः सद्भावात्तदप्राप्तेः। एतयोः-अनयोस्तापीसभुद्रयोः, योगकाले-सङ्गमसमये, त्वमपि-श्रीमाँस्तु, अभ्रच्छन्नः-मेघलीनः, भवितासि-भविष्यसि, यतः इह-संसारे, पित्रोः-जननीजनकयोः, सुरतम्-सम्भोगम् , मदनविलासमितियावत् , पश्यन्-विलोकमानः, जडोऽपि कः