________________ पोतश्रेणी-परिचयमिषा-त्तीरवेल्लद्विमाना, मज्जद्वन्दा-रकवरवधू- गरैर्नागरीभिः / / स्वादुस्वच्छ-स्फटिकरुचिरा-म्भोभरैरुत्तरङ्गा, तापी तत्र यति तटिनी स्वर्गगङ्गानुकारम् // 87 // ( अन्वयः ) तत्र पोतश्रेणीपरिचयमिषात् तीरवेल्लद्विमाना, नागरैः नागरीभिः मजद्वन्दारकवरवधूः, स्वादुस्वच्छस्फटिकरुचिराम्भोभरैः उत्तरङ्गा तापीतटिनी स्वर्गगङ्गानुकारं श्रयति / (प्रकाशः) तत्र-सूर्यपुरोपान्ते, पोतश्रेणीपरिचय मिषाततरीततिसम्बन्धव्याजात्, तीरवेल्लद्विमाना-तीरे वेल्लन्तो विमाना यस्याः सा, तटविराजदमररथा, प्रचलन्ति प्रभूताः पोता अस्यास्तीरे ते च विमानकल्पा भान्तीतिभावः, नागरैः नागरीभि:-पुरनिवासिनरनारीभिः, मजद्वन्दारकवरवधूः-स्नानं विदधन्निर्जरनायकनायिका, प्रवाहेऽस्याः प्रमज्जन्नरनार्यः सुररमणरमणीसदृशाः शोभन्त इत्याशयः, प्रशस्तं वृन्दमस्त्येषां वृन्दारकाः 'वृन्दादारकः' / 7 / 2 / 11 / इत्यारकः, स्वादुस्वच्छस्फटिकरुचिराम्भोमरैःमधुरामलचन्द्रकान्तकान्तिकान्तसलिलसमूहैः, उत्तरङ्गा-समुच्छलल्लहरीललामा, तापीतटिनी-दिनपतिदुहिता तरङ्गिणी, स्वर्गगङ्गानुकारम्-नभोमन्दाकिनीसादृश्यम् , श्रयति-अवाप्नोति / उपमा // 87 // . (88) समुद्रेण सहास्याः सङ्गमस्त्वया न दरीदृश्य, इत्याह एनामिति--