________________ (86) तत्रत्यं विविधविटपिविलासं वर्णयति खर्जुरीणामितिखजूरीणां विपिनपटली तुङ्गतालद्माणां, तत्र श्रेणि-स्तपनतनया-तीरभूमिप्ररूढा / मन्दं मन्दं प्रसृमरमरुत्-कम्पिता मौलिकम्पैः; श्लाघामन्तः सृजति नगर-स्यास्य लोकान्तरस्य / 86 / ( अन्वयः ) तत्र तंपनतनयातीरभूमिप्ररूढा खजूरीणां विपिनपटली तुङ्गतालद्रुमाणां श्रेणिः मन्दं मन्दं प्रसृमरमरुत्कपिता अस्य नगरस्य लोकान्तरस्य (च) मौलिकम्पैः अन्तः श्लाघां सृजति // 86 // (प्रकाशः ) तत्र-सूर्यपुरसमीपप्रदेशे, तपनतक्यातीर. भूमिप्ररूढा-तापीतटभूभागोगता, खजूरीणाम्-तन्नामविख्यातवृक्षविशेषाणाम्, विपिनपटली-काननकलापः, तुङ्गतालद्रुमाणाम्उच्चैस्तरतृणराजवृक्षाणाम् ,'तृणराजस्तलस्तालः' इति हैमः / श्रेणिःततिः, मन्दं मन्दं प्रसृमरमरुत्कम्पिता-शनैः शनैः वहमानपवमानान्दोलिता, प्रसरतीत्येवं शीलः / प्रसृमरः 'सृघस्यदो मरक्' 15 / 2 / 73 / इति मरक्, अस्य-पुरःस्थितस्य, नगरस्य-पुरस्य, लोकान्तरस्य च-अन्यज्जनस्यापि, मौलिकम्पैः-शिरोविधूननैः, अन्तःश्लाघाम्-मनसि प्रशंसनम् , हृदयहादमितियावत् , सृजतिजनयति // 86 // (87) . तापीमनुकारयति स्वर्गगङ्गया पोतेति- .