________________ : 191 : (85) भृगुपुरतः श्रीसूर्यपुरं पञ्चयोजनमात्रविप्रकृष्टमत्रत्यसर्वो हि प्रदेशोऽनूपः शाद्वलश्च, श्रीमान् शनैः शनैरवलोकयन्निदं सूर्यपुरोपान्तं यायादित्याह-तत्रेति-- तत्र स्थित्वा भृगुपुरमहा-वप्रवातायनाग्रे, दृष्ट्वा हृष्टो निजतनुभुवो धावनोद्वल्गनानि // गच्छेः स्वच्छे तरणिनगरो-पान्तभूमिप्रदेशे, श्रीश्रीपूज्य-क्रमविहरण-ध्वस्तपापप्रवेशे // 85 // ( अन्वयः ) तत्र भृगुपुरमहावप्रवातायनाने स्थित्वा निजतनुभुवः धावनोद्वल्गनानि दृष्ट्वा हृष्टः ( त्वम् ) श्रीश्रीपूज्यक्रमविहरण-ध्वस्तपापप्रवेशे स्वच्छे तरणिनगरोप्रान्तभूमिप्रदेशे गच्छेः // 8 // (प्रकाशः ) तत्र-तस्मिन् , भृगुपुरमहावप्रवातायनाग्रेभूगुकच्छनगरश्रेष्ठकोट्टगवाक्षपुरः, स्थित्वा-अवस्थितिं विधाय, निजतनुभुवः-स्वीयदुहितुः, नर्मदायाः, धावनोद्वल्गनानिद्रुतद्रुततरगमनानि, तरङ्गभङ्गभङ्गिप्रयाणानि, दृष्ट्वा--अवलोक्य, हृष्टः-प्रीतः सन् त्वम् , श्रीश्रीपूज्यक्रमविहरणध्वस्तपापप्रवेशेश्रीमद्भट्टारकाचार्यपादप्रचारप्रणष्टदुरितागमे, अत्र हि प्रदेशे सूरिपादैः प्रभूतं विहृतमिति नात्र पापप्रवेशो भवतीतिभावः, स्वच्छे-निर्मले, तरणिनगरोपान्तभूमिप्रदेशे-सूर्यपुरसमीपवर्ति क्षेत्रसन्निवेशे, गच्छे:-यायाः, विवक्षातः कारकाणीति प्रकृते गम्धातोः कर्मणोऽधिकरणत्वेन विवक्षितत्वात्सप्तमी // 85 //