________________ : 110: (84 ) आस्तामत्र युवयोस्तातसुतयोः सम्बन्धः साधीयानित्याह आलोक्येति आलोक्य द्राग भुवनममृतै-स्तर्पयन्तं भवन्तं, तातं भ्रात-र्भवतु मुदिता नर्मदा ते तनूजा // प्राप्तोल्लासो भवतु च भवा-नप्युपेत्य क्षणेन, संसारे य-जनितजनक-प्रेमबन्धो गरीयान् ||84|| ( अन्वयः ) भ्रातः ! अमृतैः भुवनं तर्पयन्तं भवन्त तातम् आलोक्य द्राक् ते तनूजा नर्मदा मुदिता भवतु च क्षणेन भवान् अपि उपेत्य प्राप्तोल्लासः भवतु, यत् संसारे जनितजनकप्रेमबन्धः गरीयान् ( अस्ति ) // 84 // (प्रकाशः) भ्रातः!-बन्धो !, अमृतैः-पीयूषैः, भुवनम्जगत् , तर्पयन्तम्-प्रीणयन्तम् , भवन्तम्-श्रीमन्तम् , तातम्पितरम् , आलोक्य-निरीक्ष्य, द्राक्-शीघ्रम् , ते-तावकीना, तनूजा-दुहिता, नर्मदा-इन्दुजा, 'नर्मदा सोमोद्भवा ' इत्यमरः / मुदिता-आनन्दिता, भवतु-जायताम् , च-पुनः, क्षणेन-निमेपात्, भवान् अपि-श्रीमानपि, उपेत्य-तन्निकटं गत्वा, प्राप्तोलासा-अधिगतानन्दः, भवतु-जायताम् , यत्-यतो हि, संसारेभवे, जनितजनकप्रेमबन्धः-तातसुतप्रणयग्रन्थिः, अपत्यस्नेहसम्बन्धः, गरीयान्-महान् सर्वतोऽधिकः श्रेष्ठ वर्तते इतियावत् / अर्थान्तरम् // 84 //