________________ : 109 : ( अन्वयः ) तस्य उपान्ते नौस्थितानाम् अतिहिमैः नर्मदोमिस्तोमैः रोमोगमं कुर्वतीक्रीडद्गन्धद्विपमदरसोद्दामगन्धिप्रवाहा चंञ्चत्क्रीडावनघनतटा नाव्यनीरा गभीरा नर्मदा नदी सुखयति // 83 // (प्रकाशः ) तस्य-भृगुपुरस्य, उपान्ते-उपकण्ठे, समीप इति यावत् ' उपान्तं निकटोपकण्ठे' इति हैमः / समीपोऽन्तोऽस्येत्युपान्तम् , नौस्थितानाम्-तरीषूपविष्टानाम् , अतिहिमैः-अतिशयशीतलैः, नर्मदोमिस्तोमैः-केलिसम्पादकतरङ्गनिकरैः, अस्या ऊर्मयो नर्मदा अत एवेयं नर्मदेत्यनेन सूचितम् , रोमोद्गमम्-तनूरूहोल्लासम् , रोमाञ्चमितियावत् , कुर्वती-सम्पादयित्री, क्रीडद्गन्धद्विपमदरसोदामगन्धिप्रवाहा--विलसद्गन्धहस्तिदानवार्युत्कटसुरभिसलिलधारा, द्वाभ्यां पिबति द्विपः ‘स्थापास्नात्रः--' / 5 / 1 / 142 / इति कः, गन्धप्रधानो द्विपः गन्धद्विपः सरितोऽस्याः सलिलप्रवाहे गन्धहस्तिनो विलसन्तीति तेषां मदजलेनास्या वारि समुत्कटगन्धि वर्तते इतिभावः, चञ्चत्क्रीडावनघनतटा-परिस्फुरत्केलिकानननिरन्तरतीरा, अस्या रोधसि निबिडं देदीप्यमानानि लीलोपवनानि सन्तीत्याशयः / नाव्यनीरा-तरीसंतरणयोग्यसलिला, नावा तार्य नाव्यम् , 'नौ विषेण तार्यवध्ये' / 7 / 1 / 12 / इति यः, नाव्यं नीरं यत्र सा नाव्यनीरा, गमीरा-गहना, नर्मदा नदी-इन्दुजा तटिनी, रेवातरङ्गिणीतियावत्, 'रेवेन्दुजा पूर्वगना नर्मदा मेखलाद्रिजा' इति हैमः / सुखयति-आनन्दयति // 83 //