________________ : 108 : भूपीठे म-त्सदृशमपरं वर्तते वा नवेति, द्रष्टुं द्रङ्गा-न्तरमिव समा-रूढमुच्चप्रदेशम् / / 82 // (अन्वयः) इतः अत्यासन्नं प्रौढदुर्ग दुर्गन्धांशोज्झितम् अतिसुरैः भूरिपोरैः परीतं भूपीठे मत्सदृशम् अपरं द्रङ्गान्तरं वर्तते वा नवेति द्रष्टुम् उच्चप्रदेशं समारूढं भृगपुरं यास्यसि // 82 // __(प्रकाशः ) इतः-अस्मात्पुरात् , अत्यासन्नम्-अतिनिकटम् , प्रौढदुर्गम्-उन्नतकोट्टम् , दुःखेन गम्यतेऽस्मिन् दुर्गम् , 'सुगदुर्गमाधारे' / 5 / 1 / 132 / इति साधुः, दुर्गन्धांशोज्झितम्-पूति गन्धिकलेशरहितम् , अतिसुरैः-अमरवराधिकतेजोभिः, भूरिपो -प्रचुरनागरैः, परीतम्-व्याप्तम् , भूपीठे-पृथ्वीमण्डले, मन्म. दृशम्-मम समानम् , अपरम्-द्वितीयम् , वरमिति वा, द्रङ्गान्तरम्-अन्यन्नगरम् , वर्तते वा नवेति-किमु आस्ते न वा, इति, द्रष्टुम्-निरीक्षितुम् , उच्चप्रदेशम्-उच्छ्रितभूमिम् , समारूढम्समारोहणं कृतवत् , उपरिगतमितियावत् , भृगुपुरम्-तदभिधं पत्तनम् , यास्यसि-गमिष्यसि / उत्प्रेक्षा / / 82 // (83) तत्र स्थितां नर्मदा नदी वर्णयति तस्योपान्त इतितस्योपान्ते सुखपति नदी नर्मदा नर्मदोर्मिस्तोमै रोमो-गममतिहिमैः कुर्वती नौस्थितानाम्॥ क्रीडद्गन्ध-द्विपमदरसो-द्दामगन्धिप्रवाहा, चञ्चत्क्रीडा-वनघनतटा नाव्यनीरा गंभीरा // 83 //