________________ : 107: शाक् अस्य पुरस्य विष्वक् अनुपमां श्रियं द्रष्टासि हि रम्यम् एतत् चैत्यानुकारं शुचिरुचिचतुरम् // 81 // -- ( प्रकाशः ) अत्र-पुरेऽस्मिन् , मध्ये-मध्यभागे, प्रचुरसुषमः-अधिकातिशयशोभाकलितः; * सुषमा सा(शोभा )ऽतिशायिनी' इति हैमः, अत्यन्ततुङ्गः-प्रभूतोचः, गगनाङ्गणगत इतियावत् , मण्डपः-जनाश्रयः, स्तम्भस्थितच्छत्राकारगेहमितियावत् , यत्र जना एकत्रा भवन्ति सः, अस्ति-वर्तते, इन्दो !अयि अमृतपाद !, त्वया-श्रीमता, तत्र-मण्डपे तत्र, स्थित्वाविधायावस्थितिम् , चतसृषु दिशासु-दिक्षु सर्वासु, ईक्षणीयम्विलोकनीयम् , द्राक्-शीघ्रम् , अस्य. पुरस्य-वटपद्राभिधस्य नगरस्यास्य, विष्वक्-परितः, अनुपमाम्-असमाम् , श्रियम्लक्ष्मीम् , समृद्धिम् , शोभाम् , द्रष्टासि-विलोकयिता भविष्यसि, हि-खलु, रम्यम्-मनोज्ञम् , एतत्-नगरमदः, चैत्यानुकारम्जिनविहारानुरूपम् , शुचिरुचिचतुरिम्-विशदकान्तिद्वारचतुकम् , वर्तते, यथार्हप्रासादश्चतुर्दारो भवति तथेदं नगरमपि चतुर वर्तते इति // 81 // (82) ___ वटपद्रातिनिकटयोजनषट्कमात्रान्तरवर्तिभृगुपुरगमनायाह अत्येति-- अत्यासन्नं भृगुपुरमितो यास्यसि प्रौढदुर्गम् , दुर्गन्धांशो-ज्झितमतिसुरै-भूरिपोरैः परीतम् / /